सांख्यकारिका
आचार्य श्री ईश्वरकृष्णविरचिता
सांख्यकारिका
दुःखत्रयाऽभिघाताज्जिज्ञासा तदभिघातके हेतौ।
दृष्टे साऽपार्था
चेन्नैकान्ताऽत्यन्ततोऽभावात्॥ १॥
दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयाऽतिशययुक्तः।
तद्विपरीतः श्रेयान् व्यक्ताऽव्यक्तज्ञविज्ञानात्॥ २॥
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।
षोडशकस्तु विकारो
न प्रकृतिर्न
विकृतिः पुरुषः॥ ३॥
दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात्।
त्रिविधं प्रमाणमिष्टं
प्रमेयसिद्धिः प्रमाणाद्धि॥ ४॥
प्रतिविषयाऽध्यवसायो दृष्टं
त्रिविधमनुमानमाख्यातम्।
तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनन्तु॥ ५॥
सामान्यतस्तु दृष्टादतीन्द्रियाणां
प्रतीतिरनुमानात्।
तस्मादपि चाऽसिद्धं परोक्षमाप्ताऽऽगमात्सिद्धम्॥ ६॥
अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्।
सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहाराच्च॥ ७॥
सौक्ष्म्यात्तदनुपलब्धिर्नाऽभावात् कार्यतस्तदुपलब्धेः।
महदादि तच्च कार्यं प्रकृतिविरूपं सरूपं च॥
८॥
असदकरणादुपादानग्रहणात् सर्वसम्भवाऽभावात्।
शक्तस्य शक्यकरणात्
कारणभावाच्च
सत्कार्यम्॥ ९॥
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं
लिंङ्गम्।
सावयवं परतन्त्रं
व्यक्तं विपरीतमव्यक्तम्॥ १०॥
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा
च पुमान्॥ ११॥
गुणस्वरूपनिरूपणम्
-
प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः।
अन्योऽन्याभिभवाऽऽश्रयजननमिथुनवृत्तयश्च गुणाः॥ १२॥
सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं
चलञ्च रजः।
गुरु वरणकमेव
तमः प्रदीपवच्चाऽर्थतो वृत्तिः॥ १३॥
अविवेक्यादेः सिद्धिस्त्रैगुण्यात् तद्विपर्ययाऽऽभावात्।
कारणगुणाऽऽत्मकत्वात् कार्यस्याऽव्यक्तमपि सिद्धम्॥ १४॥
भेदानां परिमाणात्
समन्वयात्
शक्तितः प्रवृत्तेश्च।
कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य॥ १५॥
कारणमस्त्यव्यक्तं प्रवर्तते
त्रिगुणतः समुदयाच्च।
परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात्॥ १६॥
पुरुषस्य
सिद्धिः -
संघातपरार्थत्वात् त्रिगुणादिविपर्यादधिष्ठानात्।
पुरुषोऽस्ति भोक्तृभावात्
कैवल्याऽर्थं प्रवृत्तेश्च॥ १७॥
पुरुषाणां
नानात्वम् -
जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च।
पुरुषबहुत्वं सिद्धं
त्रैगुण्यविपर्ययाच्चैव॥ १८॥
तस्माच्च विपर्यासात्सिद्धं
साक्षित्वमस्य
पुरुषस्य।
कैवल्यं माध्यस्थ्यं
द्रष्टृत्वमकर्त्तृभावश्च॥ १९॥
तस्मात्तत्संयोगादचेतनं चेतनावदिव
लिङ्गम्।
गुणकर्तृत्वे च तथा कर्तेव
भवत्युदासीनः॥ २०॥
पुरुषस्य दर्शनार्थं
कैवल्याऽर्थं तथा प्रधानस्य।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः॥ २१॥
अथ
सृष्टिक्रमः -
प्रकृतेर्महांस्ततोऽहंकारस्तस्माद् गणश्च
षोडशकः।
तस्मादपि षोडशकात्
पञ्चभ्यः पञ्चभूतानि॥ २२॥
बुद्धेर्लक्षणम्
-
अध्यवसायो बुद्धिर्धर्मो
ज्ञानं विराग ऐश्वर्यम्।
सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्॥ २३॥
अहङ्कारस्य
लक्षणम् -
अभिमानोऽहंकारस्तस्माद्विविधः प्रवर्तते सर्गः।
एकादशकश्च गणस्तन्मात्रपञ्चकश्चैव॥ २४॥
सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारात्।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्॥ २५॥
इन्द्रियाणि
-
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः॥ २६॥
मनः -
उभयात्मकमत्र मनः
सङ्कल्पकमिन्द्रियञ्च साधर्म्यात्।
गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च॥ २७॥
शब्दादिषु पञ्चानामालोचनमात्रमिष्यते
वृत्तिः।
वचनाऽऽदानविहरणोत्सर्गाऽऽनन्दाश्च पञ्चानाम्॥ २८॥
स्वालक्षण्यं वृत्तिस्त्रयस्य
सैषा भवत्यसामान्या।
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च॥ २९॥
युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा।
दृष्टे तथाऽप्यदृष्टे त्रयस्य
तत्पूर्विका
वृत्तिः॥
३०॥
स्वां-स्वां प्रतिपद्यन्ते
परस्पराऽऽकूतहेतुकां वृत्तिम्।
पुरुषार्थ एव हेतुर्न
केनचित् कार्यते करणम्॥ ३१॥
त्रयोदशकरणलक्षणम्
-
करणं त्रयोदशविधं
तदाहरणधारणप्रकाशकरम्।
कार्यं च तस्य
दशधाऽऽहार्यं
धार्यं प्रकाश्यञ्च॥ ३२॥
अन्तःकरणं त्रिविधं
दशधा बाह्यं
त्रयस्य विषयाख्यम्।
साम्प्रतकालं बाह्यं
त्रिकालमाभ्यन्तरं
करणम्॥ ३३॥
बुद्धीन्द्रियाणि तेषां
पञ्च विशेषाऽविशेषविषयाणि।
वाग्भवति शब्दविषया
शेषाणि तु पञ्चविषयाणि॥ ३४॥
साऽन्तःकरणा बुद्धिः सर्वं विषयमवगाहते
यस्मात्।
तस्मात् त्रिविधं
करणं द्वारि
द्वाराणि
शेषाणि॥ ३५॥
बुद्धेः
प्राधान्यम् -
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः।
कृत्स्नं पुरुषस्याऽर्थं प्रकाश्य
बुद्धौ प्रयच्छन्ति॥ ३६॥
सर्वं प्रत्युपभोगं
यस्मात् पुरुषस्य साधयति बुद्धिः।
सैव च विशिनष्टि
पुनः
प्रधानपुरुषाऽन्तरं सूक्ष्मम्॥ ३७॥
तन्मात्राण्यविशेषास्तेभ्यो भूतानि
पञ्च पञ्चभ्यः।
एते स्मृता
विशेषाः शन्ता घोराश्च
मूढाश्च॥ ३८॥
सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा
विशेषाः स्युः।
सूक्ष्मास्तेषां नियता
मातापितृजा
निवर्तन्ते॥ ३९॥
सूक्ष्मलिङ्गशरीरनिरूपणम्
-
पूर्वोत्पन्नमसक्तं नियतं
महदादिसूक्ष्मपर्यन्तम्।
संसरति निरुपभोगं
भावैरधिवासितं
लिङ्गम्॥ ४०॥
चित्रं यथाऽऽश्रयमृते
स्थाण्वादिभ्यो
विना यथा च्छाया।
तद्वद्विना(ऽ)विशेषैर्न तिष्ठति
निराश्रयं
लिङ्गम्॥ ४१॥
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन।
प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते
लिङ्गम्॥ ४२॥
सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च
धर्माद्याः।
दृष्टाः करणाऽऽश्रयिणः कार्याऽऽश्रयिणश्च कललाद्याः॥ ४३॥
धर्मेण गमनमूर्ध्वं
गमनमधस्ताद्
भवत्यधर्मेण।
ज्ञानेन चाऽपवर्गो विपर्ययादिष्यते
बन्धः॥ ४४॥
वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद् रागात्।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः॥ ४५॥
बुद्धिसर्गनिरूपणम्
-
एष प्रत्ययसर्गो
विपर्ययाऽशक्तितुष्टिसिद्ध्याख्यः।
गुणवैषम्यविमर्दात् तस्य च
भेदास्तु
पञ्चाशत्॥ ४६॥
विपर्ययादिभेदाः
पञ्चाशत् -
पञ्च विपर्ययभेदा
भवन्त्यशक्तिस्तु करणवैकल्यात्।
अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा
सिद्धिः॥ ४७॥
भेदस्तमसोऽष्टविधो मोहस्य
च दशविधो महामोहः।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः॥ ४८॥
अशक्तेरष्टाविंशतिभेदाः
-
एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा।
सप्तदशवधा बुद्धेर्विपर्ययात्
तुष्टिसिद्धीनाम्॥ ४९॥
तुष्टेर्नव
भेदाः -
आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः।
बाह्या विषयोपरमात्
पञ्च नव
तुष्टयोऽभिमताः॥ ५०॥
ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुह्रत्प्राप्तिः।
दानं च सिद्धयोऽष्टौ
सिद्धेः
पूर्वोऽङ्कुशस्त्रिविधः॥ ५१॥
न विना
भावैर्लिङ्गं,
न विना
लिङ्गैर्न भावनिर्वृत्तिः।
लिङ्गाख्यो भावाख्यस्तस्माद्
द्विविधः प्रवर्तते सर्गः॥
५२॥
चतुर्दशविधो
भौतिकः सर्गः
-
अष्टविकल्पो दैवस्तैर्यग्योनश्च
पञ्चधा भवति।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः॥ ५३॥
उर्ध्वं सत्त्वविशालस्तमोविशालश्च
मूलतः सर्गः।
मध्ये रजोविशालो
ब्रह्मादिः स्तम्बपर्यन्तः॥ ५४॥
दुःखस्य
कारणम् -
तत्र जरामरणकृतं
दु:खं प्राप्नोति
चेतनः पुरुषः।
लिङ्गस्याऽविनिवृत्तेस्तस्माद् दुःखं स्वभावेन॥ ५५॥
इत्येष प्रकृतिकृतो
महदादिविशेषभूतपर्यन्तः।
प्रतिपुरुषविमोक्षार्थं स्वार्थ
इव परार्थ
आरम्भः॥
५६॥
वत्सविवृद्धिनिमित्तं क्षीरस्य
यथा प्रवृत्तिरज्ञस्य।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य॥ ५७॥
पुरुषस्य
विमोक्षायैव
प्रकृतिः -
औत्सुक्यविनिवृत्यर्थं यथा क्रियासु प्रवर्तते
लोकः।
पुरुषस्य विमोक्षार्थं
प्रवर्तते
तद्वदव्यक्तम्॥ ५८॥
रङ्गस्य दर्शयित्वा
निवर्तते
नर्तकी यथा नृत्यात्।
पुरुषस्य तथाऽऽत्मानं प्रकाश्य
निवर्तते
प्रकृतिः॥ ५९॥
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः।
गुणवत्यगुणस्य सतस्तस्याऽर्थमपार्थकं चरति॥ ६०॥
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति
मे मतिर्भवति।
या दृष्टाऽस्मीति
पुनर्न दर्शनमुपैति
पुरुषस्य॥ ६१॥
प्रकृतेरेव
बन्धमोक्षौ, न
पुरुषस्य -
तस्मान्न बध्यतेऽद्धा
न मुच्यते
नापि संसरति
कश्चित्।
संसरति बध्यते
मुच्यते च
नानाऽऽश्रया प्रकृतिः॥ ६२॥
प्रकृतेर्बन्धमोक्षयोर्हेतुः
-
रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना
प्रकृतिः।
सैव च पुरुषार्थं
प्रति विमोचयत्येकरूपेण॥ ६३॥
तत्त्वाभ्यासाज्ज्ञानोदयः
-
एवं तत्वाभ्यास्यान्नाऽस्मि न मे नाऽहमित्यपरिशेषम्।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते
ज्ञानम्॥ ६४॥
तेन निवृत्तप्रसवामर्थवशात्
सप्तरूपविनिवृत्ताम्।
प्रकृतिं पश्यति
पुरुषः प्रेक्षकवदवस्थितः स्वस्थः॥ ६५॥
दृष्टा
मयेत्युपेक्षक एको दृष्टाऽहमित्युपरमत्यन्या।
सति संयोगेऽपि
तयोः प्रयोजनं नास्ति
सर्गस्य॥ ६६॥
सम्यग्ज्ञानेन
जीवन्मुक्तिः
-
सम्यग्ज्ञानाधिगमाद् धर्मादीनामकारणप्राप्तौ।
तिष्ठति संस्कारवशाच्चक्रभ्रमिवद्
धृतशरीरः॥ ६७॥
पुरुषस्य
कैवल्यप्राप्तिः
-
प्राप्ते शरीरभेदे
चरितार्थत्वात्
प्रधानविनिवृतौ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति॥ ६८॥
सांख्यशास्त्रप्रशंसा
-
पुरुषार्थज्ञानमिदं गुह्यं
परमर्षिणा
समाख्यातम्।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्॥ ६९॥
सांख्यसंप्रदायक्रमः
-
एतत्पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया
प्रददौ।
आसुरिरपि पञ्चशिखाय
तेन च बहुधा
कृतं तन्त्रम्॥ ७०॥
शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन चैतदार्याभिः।
संक्षिप्तमार्यमतिना सम्यग्विज्ञाय
सिद्धान्तम्॥ ७१॥
सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य।
आख्यायिकाविरहिताः परवादविवर्जिताश्चापि॥ ७२॥