हठयोगप्रदीपिका ब्रह्मानन्दभाष्यम्

हठयोगप्रदीपिका

प्रथमोपदेशः

श्री आदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या।
विभ्राजते प्रोन्नतराजयोगमारोढुमिच्छोरधिरोहणीव॥१॥

ज्योत्स्ना भाष्यम् मुमुक्षुजनहितार्थं राजयोगद्वारा कैवल्यफलां हठप्रदीपिकां विधित्सुः परमकारुणिकः स्वात्मारामयोगीन्द्रस्तत्प्रत्यूहनिवृत्तये हठयोगप्रवर्तकश्रीमदादिनाथनमस्कारलक्षणं मङ्गलं तावदाचरति श्री आदिनाथायेत्यादिना। तस्मै श्री आदिनाथाय नमोऽस्त्वित्यन्वयः। आदिश्चासौ नाथश्च आदिनाथः, सर्वेश्वरः शिव इत्यर्थः। श्रीमान् आदिनाथः तस्मै श्री आदिनाथाय। श्रीशब्द आदिर्यस्य स श्रीआदिः, श्रीआदिश्चासौ नाथश्च श्रीआदिनाथः, तस्मै श्रीआदिनाथाय, श्रीनाथाय विण्वव इति वाऽर्थः। श्रीआदिनाथायेत्यत्र यणभावस्तु अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेद्गिराम् इति च्छन्दोविदां सम्प्रदायादुच्चारणसौष्ठवाच्चेतिबोध्यम्। वस्तुतस्तु, असंहितपाठस्वीकारापेक्षया श्रीआदिनाथायेति पाठस्वीकारेऽप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वेन परिनिष्ठितत्वसंभवात्, सम्प्रत्युदाहृतदृष्टान्तद्वयस्यापीदृग्विषयवैषम्यात्, नित्यसाहित्यभङ्गजनितदोषस्य शाब्दिकाननुमतत्वाच्चासंमृष्टविधेयांशतारूपदोषस्य साहित्यकारैरुक्तत्वेऽपि क्वचित्तैरपि स्वीकृतत्वेन शाब्दिकाचार्यैरेकाजित्यादौ कर्मधारयस्वीकारेण सर्वथाऽनादृतत्वाच्च लाघवातिशय इति सुधियो विभावयन्तु। नमः प्रह्वीभावोऽस्तु प्रार्थनायां लोट्। तस्मै कस्मै इत्यपेक्षायामाह येनेति। येन आदिनाथेन उपदिष्टा गिराजायै हठयोगविद्या हश्च ठश्च हठौ सूर्यचन्द्रौ, तयोर्योगो हठयोगः। एतेन हठशब्दवाच्ययोः सूर्यचन्द्राख्ययोः प्राणापानयोरैक्यलक्षणः प्राणायामो हठयोग इति हठयोगस्य लक्षणं सिद्धम्। तथा चोक्तं गोरक्षनाथेन सिद्धसिद्धान्तपद्धतौ हकारः कीर्तितः सूर्यष्ठकारश्चन्द्र उच्यते। सूर्याचन्द्रमसोर्योगाद्धठयोगो निगद्यते॥ इति। तत्प्रतिपादिका विद्या हठयोगविद्या, हठयोगशास्त्रमिति यावत्। गिरिजायै आदिनाथकृतो हठविद्योपदेशो महाकालयोगशास्त्रादौ प्रसिद्धः। प्रकर्षेण उन्नतः प्रोन्नतः। मन्त्रयोगहठयोगादीनामधरभूमीनामुत्तरभूमित्वाद्राजयोगस्य प्रोन्नतत्वम्। राजयोगश्च सर्ववृत्तिनिरोधलक्षणोऽसंप्रज्ञातयोगः। तमिच्छोर्मुमुक्षोरधिरोहिणीव, अधिरुह्यतेऽनयेत्यधिरोहिणी, निःश्रेणीव विभ्राजते विशेषेण भ्राजते शोभते। यथा प्रोन्नतसौधमारोढुमिच्छोरधिरोहिण्यनायासेन सौधप्रापिका भवति, एवं हठदीपिकाऽपि प्रोन्नतराजयोगमारोढुमिच्छोरनायासेन राजयोगप्रापिका भवतीति। उपमालङ्कारः। इन्द्रवज्राख्यं वृत्तम्॥१॥

प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना।
केवलं राजयोगाय हठविद्योपदिश्यते॥२॥

ज्योत्स्ना भाष्यम् एवं परमगुरुनमस्कारलक्षणं मङ्गलं कृत्वा विघ्नबाहुल्ये मङ्गलबाहुल्यस्याप्यपेक्षितत्वात्स्वगुरुनमस्कारात्मकं मङ्गलमाचरन्नस्य ग्रन्थस्य विषयप्रयोजनादीन्प्रदर्शयति प्रणम्येति। श्रीमन्तं गुरुं श्रीगुरुं नाथं श्रीगुरुनाथम्, स्वगुरुमिति यावत्। प्रणम्य प्रकर्षेण भक्तिपूर्वकं नत्वा स्वात्मारामेण योगिना योगोऽस्यास्तीति तेन। केवलं राजयोगाय केवलं राजयोगार्थं हठविद्योपदिश्यत इत्यन्वयः। हठविद्यया राजयोग एव मुख्यं फलं न सिद्धय इति केवलपदस्याभिप्रायः। सिद्धयस्त्वानुषङ्गिक्यः। एतेन राजयोगफलसहितो हठयोगोऽस्य ग्रन्थस्य विषयः। राजयोगद्वारा कैवल्यं चास्य फलम्। तत्कामश्चाधिकारी। ग्रन्थविषययोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धः। ग्रन्थस्य कैवल्यस्य च प्रयोज्यप्रयोजकभावः सम्बन्धः। ग्रन्थाभिधेयस्य सफलयोगस्य कैवल्यस्य च साध्यसाधनभावः सम्बन्ध इत्युक्तम्॥२॥

भ्रान्त्या बहुमतध्वान्ते<![if !supportFootnotes]>[1]<![endif]> राजयोगमजानताम्।
हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः॥३॥

ज्योत्स्ना भाष्यम् ननु मन्त्रयोगसगुणध्याननिर्गुणध्यानमुद्रादिभिरेव राजयोगसिद्धौ किं हठविद्योपदेशेनेत्याशङ्क्य व्युत्थितचित्तानां मन्त्रयोगादिभिः राजयोगासिद्धेर्हठयोगादेव राजयोगसिद्धिं वदन् ग्रन्थं प्रतिजानीते भ्रान्त्येति। मन्त्रयोगादिबहुमतरूपे ध्वान्ते गाढान्धकारे या भ्रान्तिर्भ्रमस्तया। तैस्तैरुपायै राजयोगार्थं प्रवृत्तस्य तत्र तत्र तदलाभात्। वक्ष्यति च राजयोगं विना- इत्यादिना। तथा राजयोगमजानतां न जानन्तीत्यजानन्तः तेषामजानतां पुंसाम्, राजयोगज्ञानमिति शेषः। करोतीति करः कृपायाः करः कृपाकरः कृपाया आकर<![if !supportFootnotes]>[2]<![endif]> इति वा तादृशः। अनेन हठप्रदीपिकाकरणे अज्ञानुकम्पैव हेतुरित्युक्तम्। स्वात्मन्यारमत इति स्वात्मारामः। हठस्य हठयोगस्य प्रदीपिकेव प्रकाशकत्वात् हठप्रदीपिका ताम्। अथवा हठ एव प्रदीपिका राजयोगप्रकाशकत्वात्, तां धत्ते विधत्ते, करोतीति यावत्। स्वात्माराम इत्यनेन ज्ञानस्य सप्तभूमिकां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युक्तम्। तथा च श्रुतिः आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः इति। सप्त भूमयश्चोक्ता योगवासिष्ठे ज्ञानभूमिः शुभेच्छाक्या प्रथमा समुदाहृता। विचारणा द्वितीया स्यात्तृतीया तनुमानसा॥ सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका। परार्थाभाविनी षष्ठी सप्तमी तुर्यगा स्मृता॥ इति। अस्यार्थः शुभेच्छा इत्याख्या यस्याः सा शुभेच्छाख्या। विवेकवैराग्ययुता शमादिपूर्विका तीव्रमुमुक्षा प्रथमा ज्ञानस्य भूमिः भूमिका उदाहृता कथिता योगिभिरिति शेषः।१। विचारणा श्रवणमननात्मिका द्वितीया ज्ञानभूमिः स्यात्।२। अनेकार्थग्राहकं मनो यदाऽनेकार्थान्परित्यज्य सदेकार्थवृत्तिप्रवाहवद्भवति तदा तनु मानसं यस्यां सा तनुमानसा निदिध्यासनरूपा तृतीया ज्ञानभूमिः स्यादिति शेषः।३। इमास्तिस्रः साधनभूमिकाः। आसु भूमिषु साधक इत्युच्यते। तिसृभिर्भूमिकाभिः शुद्धसत्त्वेऽन्तःकरणेऽहं ब्रह्मास्मीत्याकारिकाऽपरोक्षवृत्तिरूपा सत्त्वापत्तिनामिका चतुर्थी ज्ञानभूमिः स्यात्। चतुर्थीयं फलभूमिः। अस्यां योगी ब्रह्मविदित्युच्यते। इयं सम्प्रज्ञातयोगभूमिका।४। वक्ष्यमाणास्तिस्रोऽसम्प्रज्ञातयोगभूमयः। सत्त्वापत्तेरनन्तरा सत्त्वापत्तिसंज्ञिकायां भूमावुपस्थितासु सिद्धिषु असंसक्तस्यासंसक्तिनामिका पञ्चमी ज्ञानभूमिः स्यात्। अस्यां योगी स्वयमेव व्युत्तिष्ठते। एतां भूमिं प्राप्तो ब्रह्मविद्वर इत्युच्यते।५। परब्रह्मातिरिक्तमर्थं न भावयति यस्यां सा परार्थाभाविनी षष्ठी ज्ञानभूमिः स्यात्। अस्यां योगी परप्रबोधित एव व्युत्थितो भवति। एतां प्राप्तो ब्रह्मविद्वरीयानित्युच्यते।६। तुर्यगा नाम सप्तमी भूमिः स्मृता। अस्यां योगी स्वतः परतो वा न व्युत्थानं प्राप्नोति। एतां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युच्यते।७। तत्र प्रमाणभूता श्रुतिरत्रैवोक्ता। पूर्वमयमेव जीवन्मुक्त इत्युच्यते, स एवात्र स्वात्मारामपदेनोक्त इत्यलं बहूक्तेन॥३॥

हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते।
स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः॥४॥

ज्योत्स्ना भाष्यम् महत्सेवितत्वाद्धठविद्यां प्रशंसन्स्वस्यापि महत्सकाशाद्धठविद्यालाभाद्गौरवं द्योतयति हठविद्यां हीति। हीति प्रसिद्धम्। मत्स्येन्द्रश्च गोरक्षश्च तौ आद्यौ येषां ते मत्स्येन्द्रगोरक्षाद्याः। आद्यशब्देन जालन्धरनाथभर्तृहरिगोपीचन्दप्रभृतयो ग्राह्याः। ते हठविद्यां हठयोगविद्यां विजानते विशेषेण साधनलक्षणभेदफलैर्जानन्तीत्यर्थः। स्वात्मारामः स्वात्मारामनामा। अथवा शब्दसमुच्चये। योगी योगवान् तत्प्रसादतः गोरक्षप्रसादाज्जानीत इत्यन्वयः। परममहता ब्रह्मणाऽपीयं विद्या सेवितेत्यत्र योगियाज्ञवल्क्यस्मृतिः हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः इति। वक्तृत्वं च मानसव्यापारपूर्वकं भवतीति मानसो व्यापारोऽर्थादागमः। तथा च श्रुतिः यन्मनसा ध्यायति तद्वाचा वदति इति। भगवतेयं विद्या भागवतानुद्धवादीन्प्रयुक्ता। शिवस्तु योगी प्रसिद्ध एव। एवं च सर्वोत्तमैर्ब्रह्मविष्णुशिवैः सेवितेयं विद्या। न च ब्रह्मसूत्रकृता व्यासेन योगी निराकृत इति शङ्कनीयम्। प्रकृतिस्वातन्त्र्यविद्भिर्भेदांशमात्रस्य निराकरणात्। न तु भावनाविशेषरूपयोगस्य। भावनायाश्च सर्वसम्मतत्वात्तां विना सुखस्याप्यसम्भवात्। तथोक्तं भगवद्गीतासु नास्ति बुद्धिरयुक्तस्य न चाऽयुक्तस्य भावना। न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥ इति। नारायणतीर्थैरप्युक्तम् - स्वातन्त्र्यसत्यत्वमुखं प्रधाने सत्यं च चिद्भेदगतं च वाक्यैः। व्यासो निराचष्ट न भावनाख्यं योगं स्वयं निर्मितब्रह्मसूत्रैः॥ इति। अपि चात्मप्रदं योगं व्याकरोन्मतिमान्त्स्वयम्। भाष्यादिषु ततस्तत्र आचार्यप्रमुखैर्मतः॥ मतो योगो भगदवता गीतायामधिकोऽन्यतः। कृतः शुकादिभिस्तस्मादत्र सन्तोऽतिसादराः॥ इति। वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्॥ इति भगवदुक्तेः। किं बहुना? जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते इति वदता भगवता योगजिज्ञासोरप्यौत्कृष्ट्यं वर्णितं किमुत योगिनः। नारदादिभक्तश्रेष्ठैर्याज्ञवल्क्यादिज्ञानिमुख्यैश्चास्याः सेवनाद्भक्तज्ञानिनामप्यविरुद्धेत्युपरम्यते॥४॥

श्री आदिनाथमत्स्येन्द्रशाबरानन्दभैरवाः।
चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः॥५॥

ज्योत्स्ना भाष्यम् हठयोगे प्रवृत्तिं जनयितुं हठविद्यया प्राप्तैश्वर्यान्सिद्धानाह श्रीआदिनाथेत्यादिना। आदिनाथः शिवः सर्वेषां नाथानां प्रथमो नाथः। ततो नाथसम्प्रदायः प्रवृत्त इति नाथसम्प्रदायिनो वदन्ति। मत्स्येन्द्राख्यश्च आदिनाथशिष्यः। अत्रैवं किंवदन्ती कदाचिदादिनाथः कस्मिंश्चिद् द्वीपे स्थितः तत्र विजनमिति मत्वा गिरिजायै योगमुपदिष्टवान्। तीरसमीपनीरस्थः कश्चन मत्स्यः तं योगोपदेशं श्रुत्वा एकाग्रचित्तो निश्चलकायोऽवतस्थे। तं तादृशं दृष्ट्वाऽनेन योगः श्रुत इति तं मत्वा कृपालुरादिनाथो जलेन प्रोक्षितवान्। स च प्रोक्षणमात्राद्दिव्यकायो मत्स्येन्द्रः सिद्धोऽभूत्। तमेव मत्स्येन्द्रनाथ इति वदन्ति। शाबरनामा कश्चित्सिद्धः, आनन्दभैरवनामाऽन्यः। एतेषामितरेतरद्वन्द्वः। छिन्नहस्तपादं पुरुषं हिन्दुस्थानभाषायां चौरङ्गीति वदन्ति। कदाचिदादिनाथाल्लब्धयोगस्य भुवं पर्यटतो मत्स्येन्द्रनाथस्य कृपाऽवलोकनमात्रात्कुत्रचिदरण्ये स्थितश्चौरङ्ग्यङ्कुरितहस्तपादो बभूव। स च तत्कृपया सञ्जातहस्तपादोऽहमिति मत्वा तत्पादयोः प्रणिपत्य ममानुग्रहं कुर्वीति प्रार्थितवान्। मत्स्येन्द्रोऽपि तमनुगृहीतवान्। तस्यानुग्रहाच्चौरङ्गीति प्रसिद्धः सिद्धः सोऽभूत्। मीनो मीननाथः, गोरक्षो गोरक्षनाथः, विरूपाक्षनामा, बिलेशयनामा च। चौरङ्गीप्रभृतीनां द्वन्द्वसमासः॥५॥

मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः।
कोरण्टकः सुरानन्दः सिद्धिपादश्च चर्पटिः॥६॥

ज्योत्स्ना भाष्यम् मन्थानः, भैरवः, योगीति मन्थानप्रभृतीनां सर्वेषां विशेषणम्॥६॥

कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः।
कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः॥७॥

ज्योत्स्ना भाष्यम् काकचण्डीश्वर इत्याह्वयो नाम यस्य स तथा। अन्ये स्पष्टाः॥७॥

अल्लामः प्रभुदेवश्च घोडा चोली च टिण्टिणिः।
भानुकी नारदेवश्च खण्डः कापालिकस्तथा॥८॥

ज्योत्स्ना भाष्यम् तथाशब्दः समुच्चये॥८॥

इत्यादयो महासिद्धा हठयोगप्रभावतः।
खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते॥९॥

ज्योत्स्ना भाष्यम् इति पूर्वोक्ता आदयो येषां ते तथा। आदिशब्देन तारानाथादयो ग्राह्याः। महान्तश्च ते सिद्धाश्च अप्रतिहतैश्वर्या इत्यर्थः। हठयोगस्य प्रभावात्सामर्थ्यादिति हठयोगप्रभावतः। पञ्चम्यास्तसिल्। कालो मृत्युः तस्य दण्डनं मृत्युं जित्वेत्यर्थः। ब्रह्माण्डमध्ये विचरन्ति विशेषेणाव्याहतगत्या चरन्तीत्यर्थः। तदुक्तं भागवते योगेश्वराणां गतिमाहुरन्तर्बहिस्त्रिलोक्याः पवनान्तरात्मनाम् इति॥९॥

अशेषतापतप्तानां समाश्रयमठो हठः।
अशेषयोगयुक्तानामाधारकमठो हठः॥१०॥

ज्योत्स्ना भाष्यम् हठस्याशेषतापनाशकत्वमशेषयोगसाधकत्वं च मठकमठरूपकेणाह अशेषेति। अशेषाः आध्यात्मिकाधिभौतिकाधिदैविकभेदेन त्रिविधाः। तत्राध्यात्मिकं द्विविधं शरीरं मानसं च। तत्र शारीरं दुःखं व्याधिजम्। मानसं दुःखं कामादिजम्। आधिभौतिकं व्याघ्रसर्पादिजनितम्। आधिदैविकं ग्रहादिजनितम्। ते च ते तापाश्च तैस्तप्तानां सन्तप्तानां पुंसा हठो हठयोगः सम्यगाश्रीयत इति समाश्रयः आश्रयः आश्रयभूतो मठः मठ एव। तथा हठः अशेषयोगयुक्तानाम्, अशेषयोगयुक्ताः मन्त्रयोगकर्मयोगादियुक्तास्तेषामाधारभूतः कमठः। एवं त्रिविधतापतप्तानां पुंसामाश्रयो हठः। यथा च विश्वाधारः कमठः एवं निखिलयोगिनामाधारो हठ इत्यर्थः॥१०॥

हठविद्या परं गोप्या योगिना सिद्धिमिच्छता।
भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता॥११॥

ज्योत्स्ना भाष्यम् अथाखिलविद्यापेक्षया हठविद्याया अतिगोप्यत्वमाह हठविद्येति। सिद्धिमणिमाद्यैश्वर्यमिच्छता<![if !supportFootnotes]>[3]<![endif]>, यद्वा सिद्धिं कैवल्यसिद्धिमिच्छता वाञ्छता योगिना हठयोगविद्या परमत्यन्तं गोप्या गोपनीया गोपनार्हाऽस्तीति। तत्र हेतुमाह यतो गुप्ता हठविद्या वीर्यवत्यप्रतिहतैश्वर्यजननसमर्था स्यात्। अथ योगाधिकारी। जिताक्षाय शान्ताय सक्ताय मुक्तौ विहीनाय दोषैरसक्ताय मुक्तौ। अहीनाय दोषेतरैरुक्तकर्त्रे प्रदेयो न देयो हठश्चेतरस्मै । याज्ञवल्क्यः विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः। यैश्च नियमैर्युक्तः सर्वसङ्गविवर्जितः । कृतविद्यो जितक्रोधः सत्यधर्मपरायणः। गुरुशुश्रूषणतरः पितृमातृपरायणः। स्वाश्रमस्थः सदाचारो विद्वद्भिश्च सुशिक्षितः इति। शिश्नोदररतायैव न देयं वेषधारिणे इति कुत्रचित्। अत्र योगचिन्तामणिकाराः यद्यपि ब्राह्मणक्षत्रियविशां स्त्रीशूद्राणां च पावनम्। शान्तये कर्मणामन्यद्योगान्नास्ति विमुक्तये॥ इत्यादिपुराणवाक्येषु प्राणिमात्रस्य योगेऽधिकार उपलभ्यते, तथाऽपि मोक्षरूपकं फलं योगविरक्तस्यैव भवति। अतस्तस्यैव योगाधिकार उचितः। तथा च वायुसंहितयाम् दृष्टे तथाऽऽनुश्रविके विरक्तं विषये मनः। यस्य तस्याधिकारोऽस्मिन्योगे नान्यस्य कस्यचित् । सुरेश्वराचार्याः इहामुत्र विरक्तस्य संसारं प्रजिहासतः। जिज्ञासोरेव कस्यापि योगेऽस्मिन्नधिकारिता इत्याहुः। वृद्धैरप्युक्तम् नैतद्देयं दुर्विनीताय जातु ज्ञानं गुप्तं तद्धि सम्यक्फलाय। अस्थाने हि स्थाप्यमानैव वाचां देवी कोपान्निर्दहेन्नो चिराय॥ इति॥११॥

सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे।
धनुःप्रमाणपर्यन्तं शिलाग्निजलवर्जिते।
एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना॥१२॥

ज्योत्स्ना भाष्यम् अथ हठाभ्यासयोग्यं देशमाह सार्धेन सुराज्य इति। राज्ञः कर्म भावो वा राज्यं तच्छोभनं यस्मिन्स सुराज्यस्तस्मिन्सुराज्ये। यथा राजा तथा प्रजाः इति महदुक्ते राज्ञः शोभनत्वात्प्रजानामपि शोभनत्वं सूचितम्। धार्मिके धर्मवति। अनेन हठाभ्यासिनोऽनुकूलाहारादिलाभः सूचितः। सुभिक्ष इत्यनेनानायासेन तल्लाभः सूचितः। निरुपद्रवे चौर्यव्याघ्राद्युपद्रवरहिते। एतेन देशस्य दीर्घकालवासयोग्यता सूचिता। धनुषः प्रमाणं धनुःप्रमाणं चतुर्हस्तमात्रं तत्पर्यन्तं शिलाग्निजलवर्जिते शिला प्रस्तरः अग्निर्वह्निः जलं तोयं तैर्वर्जिते रहिते। यत्रासनं ततश्चतुर्हस्तमात्रे शिलाग्निजलानि न स्युरित्यर्थः। तेन शीतोष्णादिविकाराभावः सूचितः। एकान्ते विजने। अनेन जनसमागमाभावात्कलहाद्यभावः सूचितः। जनसम्मर्दे तु कलहादिकं स्यादेव। तदुक्तं भागवते वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि इति तादृशे मठिकामध्ये। अल्पो मठो मठिका। अल्पीयसि कन्। तस्याः मध्ये हठयोगिना हठाभ्यासी योगी हठयोगी तेन। शाकपार्थिवादिवत्समासः। स्थातव्यं स्थातुं योग्यम्। मठिकामध्य इत्यनेन शीतातपादिजनितक्लेशाभावः सूचितः। अत्र युक्ताहारविहारेण हठयोगस्य सिद्धये इत्यर्धं केनचित्क्षिप्तत्वान्न व्याख्यातम्, मूलश्लोकानामेव व्याख्यानात्। एवमग्रेऽपि ये मया न व्याख्याताः श्लोकाः हठप्रदीपिकायामुपलभ्येरंस्ते सर्वे क्षिप्ता इति बोद्धव्यम्॥१२॥

अल्पद्वारमरन्ध्रगर्तविवरं नात्युच्चनीचायतं
सम्यग्गोमयसान्द्रलिप्तममलं निःशेषजन्तूज्झितम्।
बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसम्वेष्टितं
प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः॥१३॥

ज्योत्स्ना भाष्यम् अथ मठलक्षणमाह अल्पद्वारमिति। अल्पं द्वारं यस्मिंस्तत्तादृशम्। रन्ध्रो गवाक्षादिः गर्तो निम्नप्रदेशः विवरो मूषकादिबिलं ते न सन्ति यस्मिंस्तत्तादृशम्। अत्युच्चं च तन्नीचं चात्युच्चनीचं तच्च तदायतं चात्युच्चनीचायतम्। वशेषणं विशेष्येण बहुलम् इत्यत्र बहुलग्रहणाद्विशेषणानां कर्मधारयः। ननूच्चनीचायतशब्दानां भिन्नार्थकानां कथं कर्मधारयः तत्पुरुषः समानाधिकरणः कर्मधारयः इति तल्लक्षणादिति चेन्न। मठे तेषां सामानाधिकरण्यासंभवात्। न चात्युच्चनीचायतं नात्युच्चनीचायतं नशब्देन समासान्नलोपाभावः, नेति पृथक्पदं वा। अत्युच्चे आरोहणे श्रमः स्यादतिनीचेऽवरोहणे श्रमो भवेत्। अत्यायते दूरं दृष्टिर्गच्छेत्तन्निराकरणार्थमुक्तं नात्युच्चनीचायतमिति। सम्यक्समीचीनतया गोमयेन गोपुरीषेण सान्द्रं यथा भवति तथा लिप्तम्। अमलं निर्मलं नःशेषा निखिला ये जन्तवो मशकमत्कुणाद्यास्तैरुज्झितं त्यक्तं रहितम्। बाह्ये मठाद्बहिःप्रदेशे मण्डपः शालाविशेषः, वेदिः परिष्कृता भूमिः, कूपो जलाशयविशेषः, तै रुचिरं रमणीयम्। प्राकारेण वरणेन सम्यग्वेष्टितं परितो भित्तियुक्तमित्यर्थः। हठाभ्यासिभिः हठयोगाभ्यसनशीलैः सिद्धैः। इदं पूर्वोक्तमल्पद्वारादिकं योगमठस्य लक्षणं स्वरूपं प्रोक्तं कथितम्। नन्दिकेश्वरपुराणे त्वेवं मठलक्षणमुक्तम् मन्दिरं रम्यविन्यासं मनोज्ञं गन्धवासितम्। धूपामोदादिसुरभि कुसुमोत्करमण्डितम्॥ मुनितीर्थनदीवृक्षपद्मिनीशैलशोभितम्। चित्रकर्मनिबद्धं च चित्रभेदविचित्रितम्॥ कुर्याद्योगगृहं धीमान्सुरम्यं शुभवर्त्मना। दृष्ट्वा चित्रगताञ्छान्तान्मुनीन्याति मनः शमम्॥ सिद्धान्दृष्ट्वा चित्रगतान्मतिरभ्युद्यमे भवेत्। मध्ये योगगृहस्याथ लिखेत्संसारमण्डलम्॥ श्मशानं च महाघोरं नरकांश्च लिखेत्क्वचित्। तान्दृष्ट्वा भीषणाकारान्संसारे सारवर्जिते॥ अनवसादो भवति योगी सिद्ध्यभिलाषुकः। पश्यंश्च व्याधिताञ्जन्तून्नतान्मत्तांश्चलद्व्रणान् ॥१३॥

एवंविधे मठे स्थित्वा सर्वचिन्ताविवर्जितः।
गुरूपदिष्टमार्गेण योगमेव समभ्यसेत्॥१४॥

ज्योत्स्ना भाष्यम् मठलक्षणमुक्त्वा मठे यत्कर्तव्यं तदाह एवंविध इति। एवं पूर्वोक्ता विधा प्रकारो यस्य स तथा पूर्वोक्तलक्षण इत्यर्थः। तस्मिन् स्थित्वा स्थितिं कृत्वा सर्वा याश्चिन्तास्ताभिर्विशेषेण वर्जितो रहितोऽशेषचिन्तारहितः। गुरुणोपदिष्टो यो मार्गः हठाभ्यासप्रकाररूपस्तेन सदा नित्यं योगमेवाभ्यसेत्। एवशब्देनाभ्यासान्तरस्य योगे विघ्नकरत्वं सूचितम्। तदुक्तं योगभीजे- मरुज्जयो यस्य सिद्धस्तं सेवेत गुरुं सदा। गुरुवक्त्रप्रसादेन कुर्यात्प्राणजयं बुधः । राजयोगे वेदान्ततर्कोक्तिभिरागमैश्च नानाविधैः शास्त्रकदम्बकैश्च। ध्यानादिभिः सत्करणैर्न गम्यश्चिन्तामणिर्ह्येकगुरुं विहाय । स्कन्तपुराणे- आचार्याद्योगसर्वस्वमवाप्य स्थिरधीः स्वयम्। यथोक्तं लभते तेन प्राप्नोत्यपि च निर्वृतिम् ॥ सुरेश्वराचार्यः- गुरुप्रसादाल्लभते योगमष्टाङ्गसंयुतम्। शिवप्रसादाल्लभते योगसिद्धिं च शाश्वतम् ॥ श्रुतिश्च यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिताः ह्यर्थाः प्रकाशन्ते महात्मनः॥ इति, आचार्यवान्पुरुषो वेद इति च॥१४॥

अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः।
जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति॥१५॥

ज्योत्स्ना भाष्यम् अथ योगाभ्यासप्रतिबन्धकानाह अत्याहार इति। अतिशयित आहारोऽत्याहारः, क्षुधापेक्षयाऽधिकभोजनम्। प्रयासः श्रमजननानुकूलो व्यापारः। प्रकृष्टो जल्पः प्रजल्पो बहुभाषणम्। शीतोदकेन प्रातःस्नाननक्तभोजनफलाहारादिरूपनियमस्य ग्रहणं नियमग्रहः। जनानां सङ्गो जनसङ्गः। कामादिजनकत्वात्। लोलस्य भावः लौल्यं चाञ्चल्यम्। षड्भिरत्याहारादिभिरभ्यासप्रतिबन्धात्। योगो विनश्यति विशेषेण नश्यति॥१५॥

उत्साहात्साहसाद्धैर्यात्तत्त्वज्ञानाच्च निश्चयात्।
जनसङ्गपरित्यागात् षड्भिर्योगः प्रसिद्ध्यति॥१६॥

ज्योत्स्ना भाष्यम् अथ योगसिद्धिकरानाह उत्साहादिति। विषयप्रवणं चित्तं निरोत्स्याम्येवेत्युद्यम उत्साहः। साध्यत्वासाध्यत्वे अपरिभाव्य सहसा प्रवृत्तिः साहसम्। यावज्जीवनं सेत्स्यत्येवेत्यखेदो धैर्यम्। विषया मृगतृष्णाजलवदसन्तः ब्रह्मैव सत्यमिति वास्तविकं ज्ञानं तत्त्वज्ञानम्, योगानां वास्तविकं ज्ञानं वा। शास्त्रगुरुवाक्येषु विश्वासो निश्चयः श्रद्धेति यावत्। जनानां योगाभ्यासप्रतिकूलानां यः सङ्गस्तस्य परित्यागात् षड्भिरेभिर्योगः प्रकर्षेणाविलम्बेन सिध्यतीत्यर्थः॥१६॥

 

अथ यमनियमाः।

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः।
दयार्जवं मिताहारः शौचं चैव यमा दश॥

तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम्।
सिद्धान्तवाक्यश्रवणं ह्रीमती च तपो हुतम्।
नियमा दश सम्प्रोक्ता योगशास्त्रविशारदैः॥

हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते।
कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्गलाघवम्॥१७॥

ज्योत्स्ना भाष्यम् आदावासनकथने सङ्गतिं सामान्यतस्तत्फलं चाह हठस्येति। हठस्य आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा। अथ नादानुसन्धानम् इति वक्ष्यमाणानि चत्वार्यङ्गानि। प्रथमाङ्गत्वात्पूर्वमासनमुच्यत इति सम्बन्धः। तदासनं स्थैर्यं देहस्य मनसश्चाञ्चल्यरूपरजोधर्मनाशकत्वेन स्थिरतां कुर्यात्। आसनेन रजो हन्ति इति वाक्यात्। आरोग्यं चित्तविक्षेपकरोगाभावः। रोगस्य चित्तविक्षेपकत्वमुक्तं पातञ्जलसूत्रे व्याधिरुत्थानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः इति। अङ्गानां लाघवं लघुत्वम्। गौरवरूपतमोधर्मनाशकत्वमप्येतेनोक्तम्। चकारात्क्षुद्वृद्ध्यादिकमपि बोध्यम्॥१७॥

वसिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः।
अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया॥१८॥

ज्योत्स्ना भाष्यम् वसिष्ठादिसम्मतासनमध्ये श्रेष्ठानि मयोच्यन्त इत्याह- वसिष्ठाद्यैरिति। वसिष्ठ आद्यो येषां याज्ञवल्क्यादीनां तैर्मुनिभिर्मननशीलैः। चकारान्मन्त्रादिपरैः। मत्स्येन्द्र आद्यो येषां जालन्धरनाथादीनां तैः। योगिभिः हठाभ्यासिभिः। चकारान्मुद्रादिपरैः। अङ्गीकृतानि चतुरशीत्यासनानि तन्मध्ये कानिचित् श्रेष्ठानि मया कथ्यन्ते। यद्यप्युभयोरपि मननहठाभ्यासौ स्तस्तथाऽपि वसिष्ठादीनां मननं मुख्यं मत्स्येन्द्रादीनां हठाभ्यासो मुख्य इति पृथग्ग्रहणम्॥१८॥

स्वस्तिकाकसनम्

जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे।
ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते॥१९॥

ज्योत्स्ना भाष्यम् तत्र सुकरत्वात्प्रथमं स्वस्तिकासनमाह- जानूर्वोरिति। जानु च ऊरुश्च। अत्र जानुशब्देन जानुसन्निहितो जङ्घाप्रदेशो ग्राह्यः। जङ्घोर्वोरिति पाठस्तु साधीयान्। तयोरन्तरे मध्ये उभे पादयोस्तले तलप्रदेशौ कृत्वा ऋजुकायः समकायः यत्र समासीनो भवेत्तदासनं स्वस्तिकं स्वस्तिकाख्यं प्रचक्षते वदन्ति, योगिन इति शेषः। श्रीधरेणोक्तम् उरुजङ्घान्तराधाय प्रपदे जानुमध्यगे। योगिनो यदवस्थानं स्वस्तिकं तद्विदुर्बुधाः ॥१९॥

गोमुखासनम्

सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत्।
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः॥२०॥

ज्योत्स्ना भाष्यम् गोमुखासनमाह सव्य इति। सव्ये वामे पृष्ठष्य पार्श्वे सम्प्रदायात्कटेरधोभागे दक्षिणं गुल्फं नितरां योजयेत्। गोमुखस्याकृतिर्यस्य तत्तादृशं गोमुखसंज्ञकमासनं भवेत्॥२०॥

वीरासनम्

एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम्।
इतरस्मिंस्तथा चोरुं वीरासनमितीरितम्॥२१॥

ज्योत्स्ना भाष्यम् वीरासनमाह- एकमिति। एकं दक्षिणं पादम्। तथा पादपूरणे। एकस्मिन्वामोरुणि स्थितं विन्यसेत्। इतरस्मिन्वामे पादे ऊरुं दक्षिणं विन्यसेत्। तद्वीरासनमितीरितं कथितम्॥२१॥

कूर्मासनम्।

गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः।
कूर्मासनं भवेदेतदिति योगविदो विदुः॥२२॥

ज्योत्स्ना भाष्यम् गुदमिति। गुल्फाभ्यां गुदं निरुद्ध्य नियम्य व्युत्क्रमेण यत्र सम्यगाहितः स्थितो भवेत्, एतत्कूर्मासनं भवेत्, इति योगविदो विदुरित्यन्वयः॥२२॥

कुक्कुटासनम्

पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम्॥२३॥

ज्योत्स्ना भाष्यम् कुक्कुटासनमाह- पद्मासनं त्विति। पद्मासनं तु ऊर्वोरुपरि उत्तानचरणस्थापनरूपं सम्यक् स्थापयित्वा। जानुपदेन जानुसन्निहितो जङ्घाप्रदेशः। तच्च ऊरुश्च जानूरु, तयोरन्तरे मध्ये करौ निवेश्य भूमौ संस्थाप्य। करावित्यत्रापि सम्बध्यते। व्योमस्थं स्वस्थं पद्मासनसदृशं यत्तत्कुक्कुटासनम्॥२३॥

उत्थान-कूर्मासनम्

कुक्कुटासनबन्धस्थो दोर्भ्यां संबध्य कन्धराम्।
भवेत्कूर्मवदुत्तान एतदुत्तानकूर्मकम्॥२४॥

ज्योत्स्ना भाष्यम् उत्तानकूर्मासनमाह- कुक्कुटासनेति। कुक्कुटासनस्य यो बन्धः पूर्वश्लोकोक्तस्तस्मिन् स्थितः दोर्भ्यां बाहुभ्यां कन्धरां ग्रीवां सम्बध्य कूर्मवदुत्तानो यस्मिन्भवेदेतदासनमुत्तानकूर्मकं नाम॥२४॥

धनुरासनम्

पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि।
धनुराकर्षणं कुर्याद्धनुरासनमुच्यते॥२५॥

ज्योत्स्ना भाष्यम् धनुरासनमाह- पादाङ्गुष्ठौ त्विति। पाणिभ्यां पादयोङ्गुष्ठौ गृहीत्वा श्रवणावधि कर्णपर्यन्तं धनुष आकर्षणं यथा भवति तथा कुर्यात्। गृहीताङ्गुष्ठमेकं पाणिं प्रसारितं कृत्वा गृहीताङ्गुष्ठमितरं पाणिं कर्णपर्यन्तमाकुञ्चितं कुर्यादित्यर्थः। एतद्धनुरासनमुच्यते॥२५॥

मत्स्येन्द्रासनम्

वामोरुमूलार्पितदक्षपादं जानोर्बहिर्वेष्टितवामपादम्।
प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः श्रीमत्स्यनाथोदितमासनं स्यात्॥२६॥

ज्योत्स्ना भाष्यम् मत्स्येन्द्रासनमाह- वामोरुमूलेऽर्पितः स्थापितो यो दक्षपादः तं सम्प्रदायात्पृष्ठतोगतवामपाणिना गुल्फस्योपरिभागे परिगृह्य जानोर्दक्षिणपादजानोर्बहिःप्रदेशए वेष्टितो यो वामपादस्तं वामपादजानोर्बहिर्वेष्टितदक्षिणपाणिनाऽङ्गुष्ठे प्रगृह्य। परिवर्तिताङ्गः वामभागेन पृष्ठतो मुखं यथा स्येदेवं परिवर्तितं परावर्तितमङ्गं येन स तथा तादृशो यत्र तिष्ठेत् स्थितिं कुर्यात्तदासनं मत्सेन्द्रनाथेनोदितं कथितं स्यात्। तदुदितत्वात्तन्नामकमेव वदन्ति। एवं दक्षोरुमूलार्पितवामपादं पृष्ठतोगतदक्षिणपाणिना प्रगृह्य वामजानोर्बहिर्वेष्टितदक्षपादं दक्षिणपादजानोर्बहिर्वेष्टितवामपाणिना प्रगृह्य दक्षभागेन पृष्ठतो मुखं यथा स्यादेवं परिवर्तिताङ्गश्चाभ्यसेत्॥२६॥

मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचण्डरुग्मण्डलखण्डनास्त्रम्।
अभ्यासतः कुण्डलिनीप्रबोधं चन्द्रस्थिरत्वं च ददाति पुंसाम्॥२७॥

ज्योत्स्ना भाष्यम् मत्स्येन्द्रासनस्य फलमाह- मत्स्येन्द्रेति। प्रचण्डं दुःसहं रुजां रोगाणां मण्डलं समूहः तस्य खण्डने छेदनेऽस्त्रमस्त्रमिव तादृशं मत्स्येन्द्रपीठं मत्स्येन्द्रासनम् अभ्यासतः प्रत्यहमावर्तनरूपादभ्यासात् पुंसां जठरस्य जठराग्नेः प्रकृष्टां दीप्तिं वृद्धि ददाति। तथा कुण्डलिन्या आधारशक्तेः प्रबोधं निद्राभावं तथा चन्द्रस्य तालुन उपरिभागे स्थितस्य नित्यं क्षरतः स्थिरत्वं क्षरणाभावं च ददातीत्यर्थः॥२७॥

पश्चिमोत्तानासनम्

प्रसार्य पादौ भुवि दण्डरूपौ दोर्भ्यां पदाग्रद्वितयं गृहीत्वा।
जानूपरिन्यस्तललाटदेशो वसेदिदं पश्चिमतानमाहुः॥२८॥

ज्योत्स्ना भाष्यम् पश्चिमतानासनमाह- प्रसार्येति। भुवि भूमौ दण्डस्य रूपमिव रूपं ययोस्तौ दण्डाकारौ श्लिष्टगुल्फौ प्रसार्य प्रसारितौ कृत्वा। दोर्भ्यामाकुञ्चिततर्जनीभ्यां भुजाभ्यां पदोः पदयोश्चाग्रेऽग्रभागौ तयोर्द्वितयं द्वयमङ्गुष्ठप्रदेशयुग्मं बलादाकर्षणपूर्वकं यथा जान्वधोभागस्य भूमेरुत्थानं न स्यात्थता गृहीत्वा जानोरुपरिन्यस्तो ललाटदेशो येन तादृशो यत्र वसेत्। इदं पश्चिमताननामकमासनमाहुः॥२८॥

इति पश्चिमतानमासनग्र्यं पवनं पश्चिमवाहिनं करोति।
उदयं जठरानलस्य कुर्यादुदरे कार्श्यमरोगतां च पुंसाम्॥२९॥

ज्योत्स्ना भाष्यम् अथ तत्फलम्- इतीति। इति पूर्वोक्तमासनेष्वग्र्यं मुख्यं पश्चिमतानं पवनं प्राणं पश्चिमवाहिनं पश्चिमेन पश्चिममार्गेण सुषुम्णमार्गेण वहतीति पश्चिमवाही तं तादृशं करोति। जठरानलस्य जठरे योऽनलोऽग्निस्तस्योदयं वृद्धिं कुर्यात्। उदरे मध्यप्रदेशे कार्श्यं कृशत्वं कुक्यात्। अरोगतामारोग्यं चकारान्नाडीवलनादिसाम्यं कुर्यात्॥२९॥

मयूरासनम्

धरामवष्टभ्य करद्वयेन तत्कूर्परस्थापितनाभिपार्श्वः।
उच्चासनो दण्डवदुत्थितः स्यान्मायूरमेतत्प्रवदन्ति पीठम्॥३०॥

ज्योत्स्ना भाष्यम् अथ मयूरासनमाह- धरामिति। करद्वयेन करयोर्द्वयं युग्मं तेन धरां भूमिमवष्टभ्यावलम्ब्य, प्रसारिताङ्गुली भूमिसलंग्नतलौ सन्निहितौ करौ कृत्वेत्यर्थः। तस्य करद्वयस्य कूर्परयोर्भुजमध्यसन्धिभागयोः स्थापिते धृते नाभेः पार्श्वे पार्श्वभागौ येन उच्चासन उच्चमुन्नतमासनं यस्यैतादृशः। खे शून्ये दण्डवद्दण्डेन तुल्यमुत्थित ऊर्ध्वं स्थितो यत्र भवति तन्मायूरं मयूरस्येदं तत्सम्बन्धित्वात्तन्नामकं प्रवदन्ति। योगिन इति शेषः॥३०॥

हरति सकलरोगानाशु गुल्मोदरादी-
नभिभवति च दोषानासनं श्रीमयूरम्।
बहु कदशनभुक्तं भस्म कुर्यादशेषं
जनयति जठराग्निं जारयेत्कालकूटम्॥३१॥

ज्योत्स्ना भाष्यम् मयूरासनगुणानाह- हरतीति। गुल्मो रोगविशेषः उदरं जलोदरं ते आदिनी येषां प्लीहादीनां ते तथा तान्सकलरोगान् सकला ये रोगास्तानाशु झटिति हरति नाशयति। श्रीमयूरमासनमिति सर्वत्र सम्बध्यते। दोषान्वातपित्तकफानालस्यदांश्चाभिभवति तिरस्करोति। बह्वतिशयितं कदशनं कदन्नं यद्भुक्तं तदशेषं समस्तं भस्म कुर्यात्पाचयेदित्यर्थः। जठराग्निं जठरानलं जनयति प्रादुर्भावयति। कालकूटं विषं कालकूटशब्दः कालकूटवदपकारकान्नं समस्तं जारयेज्जीर्णं कुर्यात्पाचयेदित्यर्थः॥३१॥

शवासनम्

उत्तानं शववद्भूमौ शयनं तच्छवासनम्।
शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम्॥३२॥

ज्योत्स्ना भाष्यम् शवासनमाहार्धेन- उत्तानमिति। शवेन मृतशरीरेण तुल्यं शववदुत्तानं भूमिसंलग्नं पृष्ठं यथा स्यात्तथा शयनं निद्रायामिव सन्निवेशो यत्तच्छवासनं शवाख्यमासनम्। शवासनप्रयोजनमाह उत्तरार्धेन। शवासनं श्रान्तिहरं श्रान्तिं हठाभ्यासश्रमं हरतीति श्रान्तिहरं चित्तस्य विश्रान्तिर्विश्रामस्तस्याः कारकम्॥

चतुरशीत्यासनानि शिवेन कथितानि च।
तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम्॥३३॥

ज्योत्स्ना भाष्यम् वक्ष्यमाणासनचतुष्टयस्य श्रेष्ठत्वं वदन्नाह- चतुरशीतीति। शिवेनेश्वरेण चतुरधिकाशीतिसंख्याकान्यासनानि कथितानि, चकाराच्चतुरशीतिलक्षाणि च। तदुक्तं गोरक्षनाथेन- आसनानि च तावन्ति यावन्त्यो जीवजातयः। एतेषामखिलान्भेदान्विजानाति महेश्वरः॥ चतुरशीतिलक्षाणि एकैकं समुदाहृतम्। ततः शिवेन पीठानां षोडशोनं शतं कृतम् इति॥ तेभ्यः शिवोक्तं चतुरशीतिलक्षासनानां मध्ये प्रशस्तानि यानि चतुरशीत्यासनानि तेभ्य आदाय गृहीत्वा सारभूतं श्रेष्ठभूतं चतुष्कमहं ब्रवीमीत्यन्वयः॥३३॥

सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम्।
श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा॥३४॥

ज्योत्स्ना भाष्यम् तदेव चतुष्कं नाम्ना निर्दिशति- सिद्धमिति। सिद्धं सिद्धासनम्। पद्मं पद्मासनम्। सिंहं सिंहासनम्। भद्रं भद्रासनम्। इति चतुष्टयं श्रेष्ठमतिशयेन प्रशस्यम्, तत्रापि चतुष्टये सुखे सुखकरे सिद्धासने सदा तिष्ठेत्। एतेन सिद्धासनं चतुष्टयेऽप्युत्कृष्टमिति सूचितम्॥३४॥

सिद्धासनम्

योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसे-
त्मेढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम्।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरन्तरं
ह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते॥३५॥

ज्योत्स्ना भाष्यम् आसनचतुष्टयेऽप्युत्कृष्टत्वात्प्रथमं सिद्धासनमाह- योनिस्थानकमिति। योनिस्थानमेव योनिस्थानकम्। स्वार्थे कप्रत्ययः। गुदोपस्थयोर्मध्यप्रदेशे पदं योनिस्थानं तत्। अङ्घ्रिर्वामश्चरणस्तस्य मूलेन पार्ष्णिभागेन घटितं संलग्नं कृत्वा। स्थानान्तरमेकं पादं दक्षिणं पादं मेढ्रेन्द्रियस्योपरिभागे दृढं यथा स्यात्तथा विन्यसेत्। हृदये हृदयसमीपे हनुं चिबुकं सुस्थिरं सम्यक् स्थिरं कृत्वा हनुहृदययोश्चतुरङ्गुलमन्तरं यथा भवति तथा कृत्वेति रहस्यम्। संयमितानि विषयेभ्यः परावृत्तानीन्द्रियाणि येन स तथा। अचला या दृक् दृष्टिस्तथा भ्रुवोरन्तरं मध्यं पश्येत्। हि प्रसिद्धं मोक्षस्य यत्कपटं प्रतिबन्धकं तस्य भेदं नाशं जनयतीति तादृशं सिद्धानां योगिनाम्। आस्तेऽत्रास्यतेऽनेनेति वा आसनं सिद्धासननामकमिदं भवेदित्यर्थः॥३५॥

मतान्तरे तु-

मेढ्रादुपरि वान्यस्य सव्यं गुल्फं तथोपरि।
गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत्॥३६॥

ज्योत्स्ना भाष्यम् मत्स्येन्द्रसम्मतं सिद्धासनमुक्त्वाऽन्यसम्मतं वक्तुमाह- मतान्तरे त्विति। तदेव दर्शयति- मेढ्रादिति। मेढ्रादुपस्थादुपर्यूर्ध्वभागे सव्यं वामगुल्फं विन्यस्य तथा सव्यवदुपरि मुख्यपादस्योपरि न तु सव्यगुल्फस्य। गुल्फान्तरं दक्षिणगुल्फं च निक्षिप्य वसेदिति शेषः। इदं सिद्धासनं मतान्तराभिमतमित्यभेद इत्यर्थः॥३६॥

एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः।
मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे॥३७॥

ज्योत्स्ना भाष्यम् तत्र प्रथमं महासिद्धसंम्मतमिति स्पष्टीकर्तुमस्यैव मतभेदान्नामभेदानाह- एतदिति। एतत्पूर्वोक्तं सिद्धासनं सिद्धासननामकं प्राहुः। केचिदित्यध्याहारः। अन्ये वज्रासनं वज्रासनसंज्ञकं विदुः जानन्ति। एके मुक्तासनं मुक्तासनाभिधं वदन्ति। परे गुप्तासनं गुप्तासनाख्यं प्राहुः। अत्रासनाभिज्ञाः। यत्र वामपादपार्ष्णिं योनिस्थाने नियोज्य दक्षिणपादपार्ष्णिर्मेढ्रादुपरि स्थाप्यते तत्सिद्धासनम्। यत्र वामपादपार्ष्णिं योनिस्थाने नियोज्य दक्षिणपादपार्ष्णिर्मेढ्रादुपरि स्थाप्यते तद्वज्रासनम्। यत्र तु दक्षिणसव्यपार्ष्णिद्वयमुपर्यधोभागेन संयोज्य योनिस्थानेन संयोज्यते न्मुक्तासनम्। यत्र च पूर्ववत्संयुक्तं पार्ष्णिद्वयं मेढ्रादुपरि निधीयते तद्गुप्तासनमिति॥३७॥

यमेष्विव मिताहारमहिंसां नियमेष्विव।
मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः॥३८॥

ज्योत्स्ना भाष्यम् अथ सप्तभिः श्लोकैः सिद्धासनं प्रशंसति- यमेष्वित्यादिभिः। यमेषु मिताहारमिव। मिताहारो वक्ष्यमाणः सुस्निग्धमधुराहारः इत्यादिना। नियमेषु अहिंसामिव। सर्वाणि यान्यासनानि तेषु सिद्धाः एकं सिद्धासनं मुख्यं विदुरिति सम्बन्धः॥३८॥

चतुरशीतिपीठेषु सिद्धमेव सदाभ्यसेत्।
द्वासप्ततिसहस्राणां नाडीनां मलशोधनम्॥३९॥

ज्योत्स्ना भाष्यम् चतुरशीतीति। चतुरधिकाशीतिसंख्याकानि यानि पीठानि तेषु सिद्धमेव सिद्धासनमेव सदा सर्वदाऽभ्यसेत्। सिद्धासनस्य सदाऽभ्यासे हेतुगर्भं विशेषणम्। द्वासप्ततिसहस्राणां नाडीनां मलशोधनं शोधकम्॥३९॥

आत्मध्यायी मिताहारी यावद्द्वादशवत्सरम्।
सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप्नुयात्॥४०॥

ज्योत्स्ना भाष्यम् आत्मध्यायीति। आत्मानं ध्यायतीत्यात्मध्यायी मिताहारोऽस्यास्तीति मिताहारी यावन्तो द्वादश वत्सराः यावद्द्वादशवत्सरम्। यावदवधारणे इत्यव्ययीभावः समासः। द्वादशवत्सरपर्यन्तमित्यर्थः। सदा सर्वदा सिद्धासनस्याभ्यासाद्योगी योगाभ्यासी निष्पत्तिं योगसिद्धिमाप्नुयात्प्राप्नुयात्। योगान्तराभ्यासमन्तरेण सिद्धासनाभ्यासमात्रेण सिद्धिं प्राप्नुयादित्यर्थः॥४०॥

किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति।
प्राणानिले सावधाने बद्धे केवलकुम्भके।
उत्पद्यते निरायासात्स्वयमेवोन्मनी कला॥४१॥

ज्योत्स्ना भाष्यम् किमन्यैरिति। सिद्धासने सिद्धे सत्यन्यैर्बहुभिः पीठैरासनैः किम्? न किमपीत्यर्थः। सावधाने प्राणानिले प्राणवायौ केवलकुम्भके बद्धे सति॥४१॥

तथैकस्मिन्नेव दृढे सिद्धे सिद्धासने सति।
बन्धत्रयमनायासात्स्वयमेवोपजायते॥४२॥

ज्योत्स्ना भाष्यम् उन्मनी उन्मन्यवस्था। सा कलेवाह्लादकत्वाच्चन्द्रलेखेव निरायासादनायासात्स्वयमेवोत्पद्यत उदेति- तथेति। तथोक्तप्रकारेणैकस्मिन्नेव सिद्धे दृढे बद्धे सति बन्धत्रयं मूलबन्धोड्डीयानबन्धजालन्धरबन्धरूपम् अनासायात् पार्ष्णिमार्गेण सम्पीड्य योनिमाकुञ्चयेद्गुदम् इत्यादिवक्ष्यमाणमूलबन्धादिष्वायासस्तं विनैव स्वयमेवोपजायते स्वत एवोत्पद्यत इत्यर्थः॥४२॥

नासनं सिद्धसदृशं न कुम्भः केवलोपमः।
न खेचरीसमा मुद्रा न नादसदृशो लयः॥४३॥

ज्योत्स्ना भाष्यम् नासनमिति। सिद्धेन सिद्धासनेन सदृशमासनं नास्तीति शेषः। केवलेन केवलकुम्भकेनोपमीयत इति केवलोपमः कुम्भः कुम्भको नास्ति। खेचरीमुद्रासमा मुद्रा नास्ति। नादसदृशो लयो लयहेतुर्नास्ति॥४३॥

पद्मासनम्

वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेत्
एतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते॥४४॥

ज्योत्स्ना भाष्यम् पद्मासनं वक्तुमुपक्रमते- अथेति। पद्मासनमाह- वामोरूपरीति। वामो य ऊरुस्तस्योपरि दक्षिणम्। चकारः पादपूरणे। संस्थाप्य सम्यगुत्तानं स्थापयित्वा वामं सव्यं चरणं तथा दक्षिणचरणवद्दक्षो दक्षिणो य ऊरुस्तस्योपरि संस्थाप्य पश्चिमेन भागेन पृष्ठभागेनेति। विधिर्विधानं करयोरित्यर्थात्। तेन कराभ्यां हस्ताभ्यां दृढं यथा स्यात्तथा पादाङ्गुष्ठौ धृत्वा गृहीत्वा। दक्षिणं करं पृष्ठतः कृत्वा। वामोरुस्थितदक्षिणचरणाङ्गुष्ठं गृहीत्वा वामकरं पृष्ठतः कृत्वा। दक्षिणोरुस्थितवामचरणाङ्गुष्ठं गृहीत्वेत्यर्थः। हृदये हृदयसमीपे। सामीपिकाधारे सप्तमी। चिबुकं हनुं निधायोरसश्चतुरङ्गुलान्तरे चिबुकं निधायेति रहस्यम्। नासाग्रं नासिकाग्रमालोकयेत्पश्येद्यत्रैतद्यमिनां योगिनां व्याधेर्विनाशं करोतीति व्याधिविनाशकारि पद्मासनमेतन्नामकं प्रोच्यते। सिद्धैरिति शेषः॥४४॥

उत्तानौ चरणौ कृत्वा उरुसंस्थौ प्रयत्ननः।
उरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ॥४५॥

ज्योत्स्ना भाष्यम् मत्स्येन्द्रनाथाभिमतं पद्मासनमाह- उत्तानाविति। उत्तानौ ऊरुसंलग्नपृष्ठभागौ चरणौ पादौ प्रयत्नतः प्रकृष्टाद्यत्नादूरुसंस्थावूर्वोः सम्यक् तिष्ठत इत्यूरुसंस्थौ तादौशौ कृत्वा। ऊर्वोर्मध्ये ऊरुमध्ये। तथा चार्थे। पाणी करावुत्तानौ कृत्वा। ऊरुसंस्थोत्तानपादोभयपार्ष्णिसंलग्नपृष्ठं सव्यं पाणिमुत्तानं कृत्वा तदुपरि दक्षिणं पाणिं चोत्तानं कृत्वेत्यर्थः। ततस्तदनन्तरं दृशौ दृष्टी॥४५॥

नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया।
उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य पवनं शनैः॥४६॥

ज्योत्स्ना भाष्यम् नासाग्र इति। नासाग्रे नासिकाग्रे विन्यसेद्विशेषेण निश्चलतया न्यसेदित्यर्थः। राजदन्तानां दंष्ट्राणां सव्यदक्षिणभागे स्थितानां मूले उभे मूलस्थाने जिह्वया उत्तम्भ्य ऊर्ध्वं स्तम्भयित्वा। गुरुमुखादवगन्तव्योऽयं जिह्वाबन्धः। चिबुकं वक्षसि निधायेति शेषः। शनैर्मन्दं मन्दं पवनं वायुमुत्थाप्य। अनेन मूलबन्धः प्रोक्तः। मूलबन्धोऽपि गुरुमुखादेवावगन्तव्यः। वस्तुतस्तु जिह्वाबन्धेनैवायं चरितार्थ इति हठरहस्यविदः॥४६॥

इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम्।
दुर्लभं येन केनापि धीमता लभ्यते भुवि॥४७॥

ज्योत्स्ना भाष्यम् एवं यत्रास्यते तदिदं पद्मासनं पद्मासनाभिधानं प्रोक्तम्। आसनज्ञैरिति शेषः। कीदृशम्? सर्वेषां व्याधीनां विशेषेण नाशनं येनकेनापि भाग्यहीनेन दुर्लभम्। धीमता भुवि भूमौ लभ्यते प्राप्यते॥४७॥

कृत्वा संपुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि।
वारंवारमपानमूर्ध्वमनिलं प्रोत्सारयन्पूरितं
न्यञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः॥४८॥

ज्योत्स्ना भाष्यम् एतच्च महायोगिसम्मतमिति स्पष्टयितुमन्यदपि पद्मासने कृत्यविशेषमाह- कृत्वेति। सम्पुटितौ सम्पटीकृतौ करावुत्सङ्गस्थाविति शेषः। दृढतरमतिशयेन दृढं सुस्थिरं पद्मासनं बध्वा कृत्येत्यर्थः। चिबुकं हनुं गाढं दृढं यथा स्यात्तथा वक्षसि वक्षःसमीपे सन्निधाय सन्निहितं कृत्वा चतुरङ्गुलान्तरेणेति योगिसम्प्रदायाज्ज्ञेयम्। जालन्धरबन्धं कृत्वेत्यर्थः। तत्स्वस्वेष्टदेवतारूपं ब्रह्म वा, ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इति भगवदुक्तेः। चेतसि चित्ते ध्यायन् चिन्तयन्। अपानमनिलमपानवायुमूर्ध्वं प्रोत्सारयन्मूलबन्धं कृत्वा सुषुम्णामार्गेण प्राणमूर्ध्वं नयन् पूरितं पूरकेण अन्तर्धारितं प्राणं न्यञ्चन्नीचैरधोऽञ्चन् गमयन्। अन्तर्भावितण्यर्थोऽञ्चतिः। प्राणापानयोरैक्यं कृत्वेत्यर्थः। नरः पुमानतुलं बोधं निरुपमज्ञानं शक्तिप्रभावाच्छक्तिराधारशक्तिः कुण्डलिनी तस्याः प्रभावात्सामर्थ्यादुपैति प्राप्नोति। प्राणापानयोरैक्ये कुण्डलिनीबोधो भवति। कुण्डलिनीबोधे सुषउम्णामार्गेण प्राणो ब्रह्मरन्ध्रं गच्छति। तत्र गते चित्तस्थैर्यं भवति चित्तस्थैर्ये संयमादात्मसाक्षात्कारो भवतीत्यर्थः॥४८॥

पद्मासने स्थितो योगी नाडीद्वारेण पूरितम्।
मारुतं धारयेद्यस्तु स मुक्तोनात्र संशयः॥४९॥

ज्योत्स्ना भाष्यम् पद्मासन इति। पद्मासने स्थितो यो योगी योगाभ्यासी पूरितं पूरकेणान्तर्नीतं मारुतं वायुं, सुषुम्णामार्गेण मूर्धानं नीत्वेति शेषः। धारयेत्स्थिरीकुर्यात्स मुक्तः, अत्र संशयो नास्तीत्यन्वयः॥४९॥

सिंहासनम्

गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्।
दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके॥५०॥

ज्योत्स्ना भाष्यम् सिंहासनमाह- गुल्फौ चेति। वृषणस्याधः अधोभागे सीवन्याः पार्श्वयोः सीवन्या उभयभागयोः क्षिपेत्प्रेरयेत्, स्थापयेदिति यावत्। गुल्फस्थापनप्रकारमेवाह- दक्षिण इति। सीवन्या दक्षिणे भागे सव्यगुल्फं स्थापयेत्। सव्यके सीवन्याः सव्यभागे दक्षिणगुल्फं स्थापयेत्॥५०॥

हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च।
व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः॥५१॥

ज्योत्स्ना भाष्यम् हस्ताविति। जान्वोरुपरि हस्तौ तु संस्थाप्य सम्यग् जानुसंलग्नतलौ यथा स्यातां तथा स्थापयित्वा। स्वाङ्गुलीः हस्ताङ्गुलीः सम्प्रसार्य सम्यक् प्रसारयित्वा व्यात्तवक्त्रः सम्प्रसारितललज्जिह्वमुखः सुसमाहितः एकाग्रचित्तः नासाग्रं नासिकाग्रं यस्मिन्निरीक्षेत॥५१॥

सिंहासनं भवेदेतत्पूजितं योगिपुङ्गवैः।
बन्धत्रितयसन्धानं कुरुते चासनोत्तमम्॥५२॥

ज्योत्स्ना भाष्यम् एतत्सिंहासनं भवेत्। कीदृशम्? योगिपुङ्गवैः योगिश्रेष्ठैः पूजितं प्रस्तुतमासनेषूत्तमं सिंहासनं बन्धानां मूलबन्धादीनां त्रितयं तस्य सन्धानं सन्निधानं कुरुते॥५२॥

भद्रासनम्

गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्।
सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे॥५३॥

ज्योत्स्ना भाष्यम् गुल्फाविति। वृषणस्याधः सीवन्याः पार्श्वयोः सीवन्या उभयतः। गुल्फौ पादग्रन्थी क्षिपेत्। क्षेपणप्रकारमेवाह- सव्यगुल्फमिति। सव्ये सीवन्याः पार्श्वे सव्यगुल्फं क्षिपेत्। तथा पादपूरणे। दक्षगुल्फं तु दक्षिणे सीवन्याः पार्श्वे क्षिपेत्॥५३॥

पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम्।
भद्रासनं भवेदेतत्सर्वव्याधिविनाशनम्।॥५४॥

ज्योत्स्ना भाष्यम् पार्श्वपादौ च पार्श्वसमीपगतौ पादौ पाणिभ्यां भुजाभ्यां दृढं बद्ध्वा। परस्परसंलग्नाङ्गुलिभ्यामुदरसंलग्नतलाभ्यां पाणिभ्यां बद्ध्वेत्यर्थः। एतद्भद्रासनं भवेत्। कीदृशम्? सर्वेषां व्याधीनां विशेषेण नाशनम्॥५४॥

गोरक्षासनमित्याहुरिदं वै सिद्धयोगिनः॥
एवमासनबन्धेषु योगीन्द्रो विगतश्रमः॥५५॥

ज्योत्स्ना भाष्यम् गोरक्षेति। सिद्धाश्च ते योगिनश्च सिद्धयोगिनः इदं भद्रासनं गोरक्षासनमित्याहुः। गोरक्षेण प्रायशोऽभ्यस्तत्वाद्गोरक्षासनमिति वदन्ति। आसनान्युक्तानि। तेषु यत्कर्तव्यं तदाह- एवमिति। एवमुक्तेष्वासनबन्धेषु बन्धनप्रकारेषु विगतः श्रमो यस्य स विगतश्रम आसनानां बन्धेषु श्रमरहितः। योगिनामिन्द्रो योगीन्द्रः॥५५॥

अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनक्रियाम्।
आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा॥५६॥

ज्योत्स्ना भाष्यम् अभ्यसेदिति। नाडिकानां नाडीनां शुद्धिम्। प्राणं चेदिडया पिबेन्नियमितम् इति वक्ष्यमाणरूपा मुद्रा आदिर्यस्याः सूर्यभेदादेस्तादृशीम्। पवनस्य प्राणवायोः क्रियां प्राणायामरूपां चाभ्यसेत्। अथ हठाभ्यसनक्रममाह- आसनमिति। आसनमुक्तलक्षणं चित्रं नानाविधं कुम्भकं सूर्यभेदनमुज्जायी इत्यादि वक्ष्यमाणम्। मुद्रा इत्याख्या यस्य तन्मुद्राख्यम्। महामुद्रादिरूपकरणं हठसिद्धौ प्रकृष्टोपकारकम्। तथा चार्थे॥५६॥

अथ नादानुसन्धानमभ्यासानुक्रमो हठे।
ब्रह्मचारी मिताहारी त्यागी योगपरायणः।
अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा॥५७॥

ज्योत्स्ना भाष्यम् अथेति। अथैतत्त्रयानुष्ठानानन्तरं नादस्यानाहतध्वनेरनुसन्धानमनुचिन्तनं हठे हठयोगेऽभ्यासोऽभ्यसनं तस्यानुक्रमः पौर्वापर्यक्रमः। हठसिद्धेरवधिमाह- ब्रह्मचारीति। ब्रह्मचर्यवान् मिताहारो वक्ष्यमाणः सोऽस्यस्तीति मिताहारी त्यागी दानशीलो विषयपरित्यागी वा योगपरायणः योगाभ्यसनपरः। अब्दाद्वर्षादूर्ध्वं सिद्धः सिद्धहठो भवेत्। अत्रोक्तेऽर्थे विचारणा स्यान्न वेति संशयप्रयुक्ता न कार्या। एतन्निश्चितमेवेत्यर्थः॥५७॥

सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः।
भुज्यते शिवसम्प्रीयै मिताहारः स उच्यते॥५८॥

ज्योत्स्ना भाष्यम् पूर्वश्लोके मिताहारीत्युक्तं तत्र योगिनां कीदृशो मिताहार इत्यपेक्षायामाह- सुस्निग्धेति। सुस्निग्धोऽतिस्निग्धः स चासौ मधुरश्च तादृश आहारश्चतुर्थांशविवर्जितश्चतुर्थभागरहितः। तदुक्तमभियुक्ते- द्वौ भागौ पूरयेदन्नैस्तोयेनैकं प्रपूरयेत्। वायोः सञ्चारणार्थाय चतुर्थमवशेषयेत्॥ इति। शिवो जीवः ईश्वरो वा, भोक्ता देवो महेश्वर इति वचनात्। तस्य सम्प्रीत्यै सम्यक्प्रीत्यर्थं यो भुज्यते स मिताहार इत्युच्यते॥५८॥

कट्वाम्लतीक्ष्णलवणोष्णहरीतशाकसौवीरतैलतिलसर्षपमद्यमत्स्यान्।
आजादिमासंदधितक्रकुलत्थकोलपिण्याकहिङ्गुलशुनाद्यमपथ्यमाहुः॥५९॥

ज्योत्स्ना भाष्यम् अथ योगिनामपथ्यमाह द्वाभ्याम्- कट्विति। कटु कारवेल्ल इत्यादि, अम्लं चिञ्चाफलादि, तीक्ष्णं मरीचादि, लवणं प्रसिद्धम्, उष्णं गुडादि, हरीतशाकं पत्रशाकं, सौवीरं काञ्जिकं, तैलं तिलसर्षपादिस्नेहः, तिलाः प्रसिद्धाः, सर्षपाः सिद्धार्थाः, मद्यं सुरा, मत्स्यो झषः। एषामितरेतरद्वन्द्वः। एतानपथ्यानाहुः। अजस्येदमाजं तदादिर्यस्य सौकरादेस्तदाजादि तच्च तन्मांसं चाजादिमांसं, दधि दुग्धपरिणामविशेषः, तक्रं गृहीतसारं दधि, कुलत्थादिर्द्विदलविशेषः, कोलं कोल्याः फलं बदरम्। कर्कन्धूर्बदरी कोलिः इत्यमरः। पिण्याकं तिलपिण्डं, हिङ्गु रामठं, लशुनम्। एषामितरेतरद्वन्द्वः। एतान्याद्यानि यस्य तत्तथा। आद्यशब्देन पलाण्डुगृञ्जनमादकद्रव्यमाषान्नादिकं ग्राह्यम्। अपथ्यमहितम्। योगिनामिति शेषः। आहुर्योगिन इत्यध्याहारः॥५९॥

भोजनमहितं विद्यात्पुनरस्योष्णीकृतं रूक्षम्।
अतिलवणमम्लयुक्तं कदशनशाकोत्कटं वर्ज्यम्॥६०॥

ज्योत्स्ना भाष्यम् भोजनमिति। पश्चादग्निसंयोगोष्णीकृतं यद्भोजनं सूपौदनरोटिकादि रूक्षं घृतादिहीनम् अतिशयितं लवणं यस्मिंस्तदतिलवणं यद्वा लवणमतिक्रान्तमतिलवणं चाकूवा इति लोके प्रसिद्धं शाकं यवक्षारादिकं। लवणस्य सर्वथा वर्जनीयत्वादुत्तरपक्षः साधुः। तथा च दत्तात्रेयः- अथ वर्ज्यानि वक्ष्यामि योगविघ्नकराणि च। लवणं सर्षपं चाम्लमुग्रं तीक्ष्णं च रूक्षकम्। अतीव भोजनं त्याज्यमतिनिद्राऽतिभाषणम्॥ इति। स्कन्दपुराणेऽपि- त्यजेत्कट्वम्ललवणं क्षीरभोजी सदा भवेत् इति। अम्लयुक्तमम्लद्रव्येण युक्तमपि त्याज्यं किमुत साक्षादम्लम्। अत्र तृतीयपदं पललं वा तिलपिण्डम् इति केचित्पठन्ति। तस्यायमर्थः- पललं मांसं तिलपिण्डं पिण्याकं कदशनं कदन्नं यावनालकोद्रवादि शाकं विहितेतरशाकमात्रम्। उत्कटं विदाहि मिरचीति लोके प्रसिद्धम्। मिरचा इति हिन्दुस्थानभाषायाम्। कदशनादीनां समाहारद्वन्द्वः। अतिलवणादिकं वर्ज्यं वर्जनार्हम्। दुष्टमिति पाठे दुष्टं पूतिपर्युषितादि। अहितमिति योजनीयम्॥६०॥

वह्निस्त्रीपथिसेवनामादौ वर्जनमाचरेत्।
तथाहि गोरक्षवचनम्
वर्जयेद् दुर्जनप्रान्तं वह्निस्त्रीपथिसेवनम्।
प्रातःस्नानोपवासादि कायक्लेशविधिं तथा॥६१॥

ज्योत्स्ना भाष्यम् एवं योगिनां सदा वर्ज्यान्युक्त्त्वाऽभ्यासकाले वर्ज्यान्याहार्धेन वह्नीति। वह्निश्च स्त्री च पन्थाश्च तेषां सेवा वह्निसेवनस्त्रीसङ्गतीर्थयात्रागमनादिरूपास्तासां वर्जनमादावभ्यासकाल आचरेत्। सिद्धेऽभ्यासे तु कदाचित्। शीते वह्निसेवनं गृहस्थस्य ऋतौ स्वभार्यागमनं तीर्थयात्रादौ मार्गगमनं च न निषिद्धमित्यादिपदेन सूच्यते। तत्र प्रमाणं गोरक्षवचनमवतारयति- तथाहीति। तत्पठति- वर्जयेदिति। दुर्जनप्रान्तं दुर्जनसमीपवासम्। दुर्जनप्रीतिम् इति क्वचित्पाठः। वह्निस्त्रीपथिसेवनं व्याख्यातं, प्रातःस्नानमुपवासश्चादिर्यस्य फलहारादेः तच्च तयोः समाहारद्वन्द्वः। प्रथमाभ्यासिनः प्रातःस्नाने शीतविकारोत्पत्तेः, उपवासादिना पित्ताद्युत्पत्तेः। कायक्लेशविधिं कायक्लेशकरं विधिं क्रियां बहुसूर्यनमस्कारादिरूपां बहुभारोद्वहनादिरूपां च। तथा समुच्चये। अत्र प्रतिपदं वर्जयेदिति क्रियासम्बन्धः॥६१॥

गोधूमशालियवषाष्टिकशोभनान्नं क्षीराज्यखण्डनवनीतसितामधूनि।
शुण्ठीपटोलकफलादिकपञ्चशाकमुद्गादिदिव्यमुदकञ्च यमीन्द्रपथ्यम्॥६२॥

ज्योत्स्ना भाष्यम् अथ योगिपथ्यमाह- गोधूमेत्यादिना। गोधूमाश्च शालयश्च यवाश्च षाष्टिकाः षष्ट्या दिनैर्ये पच्यन्ते तन्दुलविशेषास्ते शोभनमन्नं पवित्रान्नं श्यामाकनीवारादि तच्चैतेषां समाहारद्वन्द्वः। क्षीरं दुग्धमाज्यं घृतं खण्डः शर्करा नवनीतं मथितदधिसारं सिता तीव्रपदी खण्डशर्करेति लोके प्रसिद्धा, मिसरीति हिन्दुस्थानभाषायाम्। मधु क्षौद्रम्, एषामितरेतरद्वन्द्वः। शुण्ठी प्रसिद्धा पटोलफलं परवर इति भाषायां प्रसिद्धं शाकं तदादिर्यस्य कौशातक्यादेस्तत्पटोलकफलादिकम्। शेषाद्विभाषा इति कप्प्रत्ययः। पञ्चानां शाकानां समाहारः पञ्चशाकम्। तदुक्तं वैद्यके- सर्वशाकमचाक्षुष्यं चाक्षुष्यं शाकपञ्चकम्। जीवन्तीवास्तुमूल्याक्षी मेघनादपुनर्नवा॥ इति। मुद्गा द्विदलविशेषा आदिर्यस्य तन्मुद्गादि। आदिपदेन आढकी ग्राह्या। दिव्यं निर्दोषमुदकं जलम्। यम एषामस्तीति यमिनः तेष्विन्द्रो देवश्रेष्ठो यो योगीन्द्रस्तस्य पथ्यं हितम्॥६२॥

पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम्।
मनोभिलषितं योग्यं योगी भोजनमाचरेत्॥६३॥

ज्योत्स्ना भाष्यम् अथ योगिनो भोजननियममाह- पुष्टमिति। पुष्टं देहपुष्टिकरमोदनानि सुमधुरं शर्करादिसहितं स्निग्धं सघृतं गव्यं गोदुग्धघृतादियुक्तं गव्यालाभे माहिषं दुग्धादि ग्राह्यम्। धातुप्रपोषणं लड्डुकापूपादि मनोभिलषितं पुष्टादिषु यन्मनोरुचिकरं तदेव योगिना भोक्तव्यम्। मनोभिलषितमपि किमविहितं भोक्तव्यं नेत्याह- योग्यमिति। विहितमेवेत्यर्थः। योगी भोजनं पूर्वोक्तविशेषणविशिष्टमाचरेत्कुर्यादित्यर्थः। न तु सक्तुभर्जितान्नादिना निर्वाहं कुर्यादिति भावः॥६३॥

युवा वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा।
अभ्यासात्सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रितः॥६४॥

ज्योत्स्ना भाष्यम् योगाभ्यासिनो वयोविशेषारोग्याद्यपेक्षा नास्तीत्याह- युवेति। युवा तरुणः वृद्धो वृद्धावस्थां प्राप्तः अतिवृद्धोऽतिवार्द्धकं गतो वा। अभ्यासादासनकुम्भकादीनामभ्यसनात्सिद्धिं समाधितत्फलरूपामाप्नोति। अभ्यासप्रकारमेव वदन्विशिनष्टि-सर्वयोगेष्विति। सर्वेषु योगेषु योगाङ्गेष्वतन्द्रितोऽनलसः। योगाङ्गाभ्यासात्सिद्धिमाप्नोतीत्यर्थः। जीवनसाधने कृषिवाणिज्यादौ जीवनशब्दप्रयोगवत्साक्षात्परम्परया वा योगसाधनेषु योगाङ्गेषु योगशब्दप्रयोगः॥६४॥

क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत्।
न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते॥६५॥

ज्योत्स्ना भाष्यम् अभ्यासादेव सिद्धिर्भवति द्रढयन्नाह द्वाभ्याम्- क्रियायुक्तस्येति। क्रिया योगाङ्गानुष्ठानरूपा तया युक्तस्य सिद्धिर्योगसिद्धिः स्यात्। अक्रियस्य योगाङ्गानुष्ठानरहितस्य कथं भवेन्न कथमपीत्यर्थः। ननु योगशास्त्राध्ययनेन योगसिद्धिः स्यान्नेत्याह- नेति। शास्त्रस्य योगशास्त्रस्य पाठमात्रेण केवलेन पाठेन योग्यस्य सिद्धिर्न प्रजायते नैव जायत इत्यर्थः॥६५॥

न वेषधारणं सिद्धेः कारणं न च तत्कथा।
क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः॥६६॥

ज्योत्स्ना भाष्यम् नेति। वेषस्य काषायवस्त्रादेः धारणं सिद्धेर्योगसिद्धेः कारणं न। तस्य योगस्य कथा वा कारणं न। किं तर्हि सिद्धेः कारणमित्यत आह- क्रियैवेति॥६६॥

पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च।
सर्वाण्यपि हठाभ्यासे राजयोगफलावधि॥६७॥

ज्योत्स्ना भाष्यम् योगाङ्गानुष्ठानस्यावधिमाह- पीठानीति। पीठान्यासनानि चित्रा अनेकविधाः कुम्भकाः सूर्यभेदादयः दिव्यान्युत्कृष्टानि करणानि महामुद्रादीनि। हठसिद्धौ प्रकृष्टोपकारकत्वं करणत्वम्। हठाभ्यासे सर्वाणि पीठकुम्भककरणानि राजयोगफलावधि राजयोग एव फलं तदवधि तत्पर्यन्तं कर्तव्यानीति शेषः॥६७॥

इति श्री सहजानन्दसन्तानचिन्तामणिस्वात्मारामयोगीन्द्रविरचितायां हठयोगप्रदीपिकायामासनविधिकथनं नाम प्रथमोपदेशः॥

इति श्रीहठप्रदीपिकायां ज्योत्स्नाभिधायां ब्रह्मानन्दकृतायां प्रथमोपदेशः।

<![if !supportFootnotes]>

<![endif]>

<![if !supportFootnotes]>[1]<![endif]> ध्वान्ते = Darkness

<![if !supportFootnotes]>[2]<![endif]> आरक = rich source, treasury

<![if !supportFootnotes]>[3]<![endif]> अणिमा, महिमा, गरिमा, लघिमा, प्राप्ति, प्राकाम्य, इशित्व, वशित्व