योगशिखोपनिषत्
योगज्ञाने
यत्पदाप्तिसाधनत्वेन
विश्रुते ।
तत्रैपदं
ब्रह्मतत्त्वं
स्वमात्रमवशिष्यते
॥
ॐ सह नाववतु
सह नौ भुनक्तु
सह वीर्यं
करवावहै ।
तेजस्विनावधीतमस्तु
मा
विद्विषावहै
॥ ॐ शान्तिः
शान्तिः
शान्तिः ॥
सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन
वेष्टिताः ।
तेषां
मुक्तिः कथं
देव कृपया वद
शङ्कर ॥ १॥
सर्वसिद्धिकरं
मार्गं
मायाजालनिकृन्तनम्
।
जन्ममृत्युजराव्याधिनाशनं
सुखदं वद ॥ २॥
इति
हिरण्यगर्भः
पप्रच्च्ह स
होवाच महेश्वरः
।
नानामार्गैस्तु
दुष्प्रापं
कैवल्यं परमं पदम्
॥ ३॥
सिद्धिमार्गेण
लभते नान्यथा
पद्मसंभव ।
पतिताः
शास्त्रजालेषु
प्रज्ञया तेन
मोहिताः ॥ ४॥
स्वात्मप्रकाशरूपं
तत्किं
शास्त्रेण
प्रकाश्यते ।
निष्कलं
निर्मलं
शान्तं
सर्वातीतं
निरामयम् ॥ ५॥
तदेव
जीवरूपेण
पुण्यपापफलैर्वृतम्
।
परमात्मपदं
नित्यं
तत्कथं
जीवतां गतम् ॥
६॥
तत्त्वातीतं
महादेव
प्रसादात्कथयेश्वर
।
सर्वभावपदातीतं
ज्ञानरूपं
निरञ्जनम् ॥
७॥
वायुवत्स्फुरितं
स्वस्मिंस्तत्राहंकृतिरुत्थिता
।
पञ्चात्मकमभूत्पिण्डं
धातुबद्धं
गुणात्मकम् ॥
८॥
सुखदुःखैः
समायुक्तं
जीवभावनया
कुरु ।
तेन जीवामिधा
प्रोक्ता
विशुद्धे
परमात्मनि ॥
९॥
कामक्रोधभयं
चापि
मोहलोभमथो
रजः ।
जन्म
मृत्युश्च
कार्पण्यं
शोकस्तन्द्रा
क्षुधा तृषा ॥
१०॥
तृष्णा लज्जा
भयं दुःखं
विषादो हर्ष
एव च ।
एभिर्दोषैर्विनिर्मुक्तः
स जीवः शिव
उच्यते ॥ ११॥
तस्माद्दोषविनाशार्थमुपायं
कथयामि ते ।
ज्ञानं
केचिद्वदन्त्यत्र
केवलं तन्न
सिद्धये ॥ १२॥
योगहीनं कथं
ज्ञानं
मोक्षदं
भवतीह भोः ।
योगोऽपि
ज्ञानहीनस्तु
न क्षमो
मोक्षकर्मणि
॥ १३॥
तस्माज्ज्ञानं
च योगं च
मुमुक्षुर्दृढमभ्यसेत्
।
ज्ञानस्वरूपमेवादौ
ज्ञेयं
ज्ञानैकसाधनम्
॥ १४॥
अज्ञानं
कीदृशं चेति
प्रविचार्यं
मुमुक्षुणा ।
ज्ञातं येन
निजं रूपं
कैवल्यं परमं
पदम् ॥ १५॥
असौ
दोषैर्विनिर्मुक्तः
कामक्रोधभयादिभिः
।
सर्वदोषैर्वृतो
जीवः कथं
ज्ञानेन
मुच्यते ॥ १६॥
स्वात्मरूपं
यथा ज्ञानं
पूर्णं
तद्व्यापकं
तथा ।
कामक्रोधादिदोषाणां
स्वरूपान्नास्ति
भिन्नता ॥ १७॥
पश्चात्तस्य
विधिः किंनु
निषेधोऽपि
कथं भवेत् ।
विवेकी सर्वदा
मुक्तः
संसारभ्रमवर्जितः
॥ १८॥
परिपूर्णं
स्वरूपं
तत्सत्यं
कमलसंभव ।
सकलं निष्कलं
चैव
पूर्णत्वाच्च
तदेव हि ॥ १९॥
कलिना
स्फूर्तिरूपेण
संसारभ्रमतां
गतम् ।
निष्कलं
निर्मलं
साक्षात्सकलं
गगनोपमम् ॥ २०॥
उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम्
।
एतद्रूपं
समायातः स कथं
मोहसागरे ॥
२१॥
निमज्जति
महाबाहो
त्यक्त्वा
विद्यां पुनः पुनः
।
सुखदुःखादिमोहेषु
यथा
संसारिणां
स्थितिः ॥ २२॥
तथा ज्ञानी
यदा
तिष्ठेद्वासनावासितस्तदा
।
तयोर्नास्ति
विशेषोऽत्र
समा
संसारभावना ॥ २३॥
ज्ञानं
चेदीदृशं
ज्ञातमज्ञानं
कीदृशं पुनः ।
ज्ञाननिष्ठो
विरक्तोऽपि
धर्मज्ञो
विजितेन्द्रियः
॥ २४॥
विना देहेन
योगेन न
मोक्षं लभते
विधे ।
अपक्वाः
परिपक्वाश्च
देहिनो
द्विविधाः स्मृताः
॥ २५॥
अपक्वा
योगहीनास्तु
पक्वा योगेन
देहिनः ।
सर्वो
योगाग्निना
देहो ह्यजडः
शोकवर्जितः ॥
२६॥
जडस्तु
पार्थिवो
ज्ञेयो
ह्यपक्वो
दुःखदो भवेत्
।
ध्यानस्थोऽसौ
तथाप्येवमिन्द्रियैर्विवशो
भवेत् ॥ २७॥
तानि गाढं
नियम्यापि
तथाप्यन्यैः
प्रबाध्यते ।
शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानसैस्तथा
॥ २८॥
अन्यैर्नानाविधैर्जीवैः
शस्त्राग्निजलमारुतैः
।
शरीरं
पीड्यते
तैस्तैश्चित्तं
संक्षुभ्यते
ततः ॥ २९॥
तथा
प्राणविपत्तौ
तु
क्षोभमायाति
मारुतः ।
ततो
दुःखशतैर्व्यापतं
चित्तं
क्षुब्धं भवेन्नृणाम्
॥ ३०॥
देहावसानसमये
चित्ते
यद्यद्विभावयेत्
।
तत्तदेव
भवेज्जीव
इत्येवं
जन्मकारणम् ॥
३१॥
देहान्ते किं
भवेज्जन्म
तन्न जानन्ति
मानवाः ।
तस्माज्ज्ञानं
च वैराग्यं
जीवस्य केवलं
श्रमः ॥ ३२॥
पिपीलिका यथा
लग्ना देहे
ध्यानाद्विमुच्यते
।
असौ किं
वृश्चिकैर्द्रष्टो
देहान्ते वा
कथं सुखी ॥
३३॥
तस्मान्मूढा
न जानन्ति
मिथ्यातर्केण
वेष्टिताः ।
अहंकृतिर्यदा
यस्य नष्टा
भवति तस्य वै
॥ ३४॥
देहस्त्वपि
भवेन्नष्टो
व्याधयश्चास्य
किं पुनः ।
जलाग्निशस्त्रखातादिबाधा
कस्य
भविष्यति ॥
३५॥
यदा यदा
परिक्षीणा
पुष्टा
चाहंकृतिर्भवेत्
।
तमनेनास्य
नश्यन्ति
प्रवर्तन्ते
रुगादयः ॥ ३६॥
कारणेन विना
कार्यं न
कदाचन
विद्यते ।
अहंकारं विना
तद्वद्देहे
दुःखं कथं
भवेत् ॥ ३७॥
शरीरेण जिताः
सर्वे शरीरं
योगिभिर्जितम्
।
तत्कथं
कुरुते तेषां
सुखदुःखादिकं
फलम् ॥ ३८॥
इन्द्रियाणि
मनो बुद्धिः
कामक्रोधादिकं
जितम् ।
तेनैव विजितं
सर्वं नासौ
केनापि
बाध्यते ॥ ३९॥
महाभूतानि
तत्त्वानि
संहृतानि
क्रमेण च ।
सप्तधातुमयो
देहो दग्धा
योगाग्निना
शनैः ॥ ४०॥
देवैरपि न
लक्ष्येत
योगिदेहो
महाबलः ।
भेदबन्धविनिर्मुक्तो
नानाशक्तिधरः
परः ॥ ४१॥
यथाकाशस्तथा
देह आकाशादपि
निर्मलः ।
सूक्ष्मात्सूक्ष्मतरो
दृश्यः
स्थूलात्स्थूलो
जडाज्जडः ॥
४२॥
इच्च्हारूपो
हि
योगीन्द्रः
स्वतन्त्रस्त्वजरामरः
।
क्रीडते
त्रिषु
लोकेषु लीलया
यत्रकुत्रचित्
॥ ४३॥
अचिन्त्यशक्तिमान्योगी
नानारूपाणि
धारयेत् ।
संहरेच्च
पुनस्तानि
स्वेच्च्हया
विजितेन्द्रियः
॥ ४४॥
नासौ
मरणमाप्नोति
पुनर्योगबलेन
तु ।
हठेन मृत
एवासौ मृतस्य
मरणं कुतः ॥
४५॥
मरणं यत्र
सर्वेषां
तत्रासौ
परिजीवति ।
यत्र जीवन्ति
मूढास्तु
तत्रासौ मृत
एव वै ॥ ४६॥
कर्तव्यं नैव
तस्यास्ति
कृतेनासौ न लिप्यते
।
जीवन्मुक्तः
सदा
स्वच्च्हः
सर्वदोषविवर्जितः
॥ ४७॥
विरक्ता
ज्ञानिनश्चान्ये
देहेन
विजिताः सदा ।
ते कथं
योगिभिस्तुल्या
मांसपिण्डाः
कुदेहिनः ॥
४८॥
देहान्ते
ज्ञानिभिः
पुण्यात्पापाच्च
फलमाप्यते ।
ईदृशं तु
भवेत्तत्तद्भुक्त्वा
ज्ञानी पुनर्भवेत्
॥ ४९॥
पश्चात्पुण्येन
लभते सिद्धेन
सह सङ्गतिम् ।
ततः सिद्धस्य
कृपया योगी
भवति नान्यथा
॥ ५०॥
ततो नश्यति
संसारो
नान्यथा
शिवभाषितम् ।
योगेन रहितं
ज्ञानं न
मोक्षाय
भवेद्विधे ॥ ५१॥
ज्ञानेनैव
विना योगो न
सिद्ध्यति
कदाचन ।
जन्मान्तरैश्च
बहुभिर्योगो
ज्ञानेन लभ्यते
॥ ५२॥
ज्ञानं तु
जन्मनैकेन
योगादेव
प्रजायते ।
तस्मायोगात्परतरो
नास्ति
मार्गस्तु
मोक्षदः ॥ ५३॥
प्रविचार्य
चिरं ज्ञानं
मुक्तोऽहमिति
मन्यते ।
किमसौ
मननादेव
मुक्तो भवति
तत्क्षणात् ॥
५४॥
पश्चाज्जन्मशन्तान्तरैर्योगादेव
विमुच्यते ।
न तथा भवतो
योगाज्जन्ममृत्यू
पुनः पुनः ॥
५५॥
प्राणापानसमायोगाच्चन्द्रसूर्यैकता
भवेत् ।
सप्तधातुमयं
देहमग्निना
रञ्जयेद्ध्रुवम्
॥ ५६॥
व्याधयस्तस्य
नश्यन्ति
च्च्हेदखातादिकास्तथा
,
तदासौ
परमाकाशरूपो
देह्यवतिष्ठति
॥ ५७॥
किं
पुनर्बहुनोक्तेन
मरणं नास्ति
तस्य वै ।
देहीव
दृश्यते लोके
दग्धकर्पूरवत्स्वयम्
॥ ५८॥
चित्तं
प्राणेन
संबद्धं
सर्वजीवेषु
संस्थितम् ।
रज्ज्वा यद्wअत्सुसंबद्धः
पक्षी
तद्वदिदं मनः
॥ ५९॥
नानाविधैर्विचारैस्तु
न बाध्यं
जायते मनः ।
तस्मात्तस्य
जयोपायः
प्राण एव हि
नान्यथा ॥ ६०॥
तर्कैर्जल्पैः
शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः
।
न वशो जायते
प्राणः
सिद्धोपायं
विना विधे ॥ ६१॥
उपायं
तमविज्ञाय
योगमार्गे
प्रवर्तते ।
खण्डज्ञानेन
सहसा जायते
क्लेशवत्तरः
॥ ६२॥
यो जित्वा
पवनं
मोहाद्योगमिच्च्हति
योगिनाम् ।
सोऽपक्वं
कुम्भमारुह्य
सागरं
तर्तुमिच्च्हति
॥ ६३॥
यस्य प्राणो
विलीनोऽन्तः
साधके जीविते
सति ।
पिण्डो न पतितस्तस्य
चित्तं दोषैः
प्रबाधते ॥
६४॥
शुद्धे चेतसि
तस्यैव
स्वात्मज्ञानं
प्रकाशते ।
तस्माज्ज्ञानं
भवेद्योगाज्जन्मनैकेन
पद्मज ॥ ६५॥
तस्माद्योगं
तमेवादौ
साधको
नित्यमभ्यसेत्
।
मुमुक्षुभिः
प्राणजयः
कर्तव्यो
मोक्षहेतवे ॥
६६॥
योगात्परतरं
पुण्यं
योगात्परतरं
शिवम् ।
योगात्परतरं
सूक्ष्मं
योगात्परतरं
नहि ॥ ६७॥
योऽपानप्राणयोरैक्यं
स्वरजोरेतसोस्तथा
।
सूर्याचन्द्रमसोर्योगो
जीवात्मपरमात्मनोः
॥ ६८॥
एवं तु
द्वन्द्वजालस्य
संयोगो योग
उच्यते ।
अथ योगशिखां
वक्ष्ये
सर्वज्ञानेषु
चोत्तमाम् ॥
६९॥
यदानुध्यायते
मन्त्रं
गात्रकम्पोऽथ
जायते ।
आसनं पद्मकं
बद्ध्वा
यच्चान्यदपि
रोचते ॥ ७०॥
नासाग्रे
दृष्टिमारोप्य
हस्तपादौ च
संयतौ ।
मनः सर्वत्र
संगृह्य
ॐकारं तत्र
चिन्तयेत् ॥
७१॥
ध्यायते सततं
प्राज्ञो
हृत्कृत्वा
परमेश्वरम् ।
एकस्तम्भे
नवद्वारे
त्रिस्थूणे
पञ्चदैवते ॥
७२॥
ईदृशे तु
शरीरे वा
मतिमान्नोपलक्षयेत्
।
आदित्यमण्डलाकारं
रश्मिज्वालासमाकुलम्
॥ ७३॥
तस्य मध्यगतं
वह्निं
प्रज्वलेद्दीपवर्तिवत्
।
दीपशिखा तु या
मात्रा सा
मात्रा
परमेश्वरे ॥ ७४॥
भिन्दन्ति
योगिनः
सूर्यं
योगाभ्यासेन
वै पुनः ।
द्वितीयं
सुषुम्नाद्वारं
परिशुभ्रं
समर्पितम् ॥
७५॥
कपालसंपुटं
पीत्वा ततः
पश्यति
तत्पदम् ।
अथ न ध्यायते
जन्तुरालस्याच्च
प्रमादतः ॥ ७६॥
यदि
त्रिकालमागच्च्हेत्स
गच्च्हेत्पुण्यसंपदम्
।
पुण्यमेतत्समासाद्य
संक्षिप्य
कथितं मया ॥
७७॥
लब्धयोगोऽथ
बुद्ध्येत
प्रसन्नं
परमेश्वरम् ।
जन्मान्तरसहस्रेषु
यदा क्षीणं तु
किल्बिषम् ॥
७८॥
तदा पश्यति
योगेन
संसारोच्च्हेदनं
महत् ।
अधुना
संप्रवक्ष्यामि
योगाभ्यासस्य
लक्षणम् ॥ ७९॥
मरुज्जयो
यस्य सिद्धः
सेवयेत्तं
गुरुं सदा ।
गुरुवस्त्रप्रसादेन
कुर्यात्प्राणजयं
बुधः ॥ ८०॥
वितस्तिप्रमितं
दैर्घ्यं
चतुरङ्गुलविस्तृतम्
।
मृदुलं धवलं
प्रोक्तं
वेष्टनाम्बरलक्षणम्
॥ ८१॥
निरुध्य
मारुतं गाढं
शक्तिचालनयुक्तितः
।
अष्टधा
कुण्डलीभूतामृज्वीं
कुर्यात्तु कुण्डलीम्
॥ ८२॥
पायोराकुञ्चनं
कुर्यात्कुण्डलीं
चालयेत्तदा ।
मृत्युचक्रगतस्यापि
तस्य
मृत्युभयं
कुतः ॥ ८३॥
एतदेव परं
गुह्यं कथितं
तु मया तव ।
वज्रासनगतो
नित्यमूर्ध्वाकुञ्चनमभ्यसेत्
॥ ८४॥
वायुना
ज्वलितो
वह्निः
कुण्डलीमनिशं
दहेत् ।
सन्तप्ता
साग्निना
जीवशक्तिस्त्रैलोक्यमोहिनी
॥ ८५॥
प्रविशेच्चन्द्रतुण्डे
तु
सुषुम्नावदनान्तरे
।
वायुना
वह्निना
सार्धं
ब्रह्मग्रन्थिं
भिनत्ति सा ॥
८६॥
विष्णुग्रन्थिं
ततो भित्त्वा
रुद्रग्रन्थौ
च तिष्ठति ।
ततस्तु
कुम्भकैर्गाढं
पूरयित्वा
पुनःपुनः ॥
८७॥
अथाभ्यसेत्सूर्यभेदमुज्जायीं
चापि शीतलीम्
।
भस्त्रां च
सहितो नाम
स्याच्चतुष्टयकुम्भकः
॥ ८८॥
बन्धत्रयेण
संयुक्तः
केवलप्राप्तिकारकः
।
अथास्य
लक्षणं
सम्यक्कथयामि
समासतः ॥ ८९॥
एकाकिना
समुपगम्य
विविक्तदेशं
प्राणादिरूपममृतं
परमार्थतत्त्वम्
।
लघ्वाशिना
धृतिमता
परिभावितव्यं
संसाररोगहरमौषधमद्वितीयम्
॥ ९०॥
सूर्यनाड्या
समाकृष्य
वायुमभ्यासयोगिना
।
विधिवत्कुम्भकं
कृत्वा
रेचयेच्च्ह्रीतरश्मिना
॥ ९१॥
उदरे
बहुरोगघ्नं
क्रिमिदोषं
निहन्ति च ।
मुहुर्मुहुरिदं
कार्यं सूर्यभेदमुदाहृतम्
॥ ९२॥
नाडीभ्यां
वायुमाकृष्य
कुण्डल्याः
पार्श्वयोः
क्षिपेत् ।
धारयेदुदरे
पश्चाद्रेचयेदिडया
सुधीः ॥ ९३॥
कण्ठे कफादि
दोषघ्नं
शरीराग्निविवर्धनम्
।
नाडीजलापहं
धातुगतदोषविनाशनम्
॥ ९४॥
गच्च्हतस्तिष्ठतः
कार्यमुज्जायाख्यं
तु कुम्भकम् ।
मुखेन वायुं
संगृह्य
घ्राणरन्ध्रेण
रेचयेत् ॥ ९५॥
शीतलीकरणं
चेदं हन्ति
पित्तं
क्षुधां तृषम्
।
स्तनयोरथ
भस्त्रेव
लोहकारस्य
वेगतः ॥ ९६॥
रेच्येत्पूरयेद्वायुमाश्रमं
देहगं धिया ।
यथा श्रमो
भवेद्देहे
तथा सूर्येण
पूरयेत् ॥ ९७॥
कण्ठसंकोचनं
कृत्वा
पुनश्चन्द्रेण
रेचयेत् ।
वातपित्तश्लेष्महरं
शरीराग्निविवर्धनम्
॥ ९८॥
कुण्डलीबोधकं
वक्त्रदोषघ्नं
शुभदं सुखम् ।
ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाशनम्
॥ ९९॥
सम्यग्बन्धुसमुद्भूतं
ग्रन्थित्रयविभेदकम्
।
विशेषेणैव
कर्तव्यं
भस्त्राख्यं
कुम्भकं त्विदम्
॥ १००॥
बन्धत्रयमथेदानीं
प्रवक्ष्यामि
यथाक्रमम् ।
नित्यं कृतेन
तेनासौ
वायोर्जयमवाप्नुयात्
॥ १०१॥
चतुर्णामपि
भेदानां
कुम्भके
समुपस्थिते ।
बन्धत्रयमिदं
कार्यं
वक्ष्यमाणं
मयहि तत् ॥
१०२॥
प्रथमो
मूलबन्धस्तु
द्वितीयोड्डीयनाभिधः
।
जालन्धारस्तृतीयस्तु
लक्षणं
कथयाम्यहम् ॥
१०३॥
गुदं
पार्ष्ण्या
तु संपीड्य
पायुमाकुञ्चलेद्बलात्
।
वारंवारं यथा
चोर्ध्वं
समायाति
समीरणः ॥ १०४॥
प्राणापानौ
नादबिन्दू
मूलबन्धेन
चैकताम् ।
गत्वा योगस्य
संसिद्धिं
यच्च्हतो
नात्र संशयः ॥
१०५॥
कुम्भकान्ते
रेचकादौ
कर्तव्यस्तूड्डियानकः
।
बन्धो येन
सुषुम्नायां
प्राणस्तूड्डीयते
यतः ॥ १०६
तस्मादुड्डीयनाख्योऽयं
योगिभिः
समुदाहृतः ।
उड्डियानं तु
सहजं गुरुणा
कथितं सदा ॥
१०७॥
अभ्यसेत्तदतन्द्रस्तु
वृद्धोऽपि
तरुणो भवेत् ।
नाभेरूर्ध्वमधश्चापि
त्राणं
कुर्यात्प्रयत्नतः
॥ १०८॥
षाण्मासमभ्यसेन्मृत्युं
जयत्येव न
संशयः ।
पूरकान्ते तु
कर्तव्यो
बन्धो
जालन्धराभिधः
॥ १०९॥
कण्ठसंकोचरूपोऽसौ
वायुर्मार्गनिरोधकः
।
कण्ठमाकुञ्च्य
हृदये
स्थापयेद्दृढमिच्च्हया
॥ ११०॥
बन्धो
जालन्धराख्योऽयममृताप्यायकारकः
।
अधस्तात्कुञ्चनेनाशु
कण्ठसंकोचने
कृते ॥ १११॥
मध्ये
पश्चिमतानेन
स्यात्प्राणो
ब्रह्मनाडिगः
।
वज्रासनस्थितो
योगी
चालयित्वा तु
कुण्डलीम् ॥
११२॥
कुर्यादनन्तरं
भस्त्रीं
कुण्डलीमाशु
बोधयेत् ।
भिद्यन्ते
ग्रन्थयो
वंशे
तप्तलोहशलाकया
॥ ११३॥
तथैव
पृष्ठवंशः
स्याद्ग्रन्थिभेदस्तु
वायुना ।
पिपीलिकायां
लग्नायां
कण्डूस्तत्र
प्रवर्तते ॥
११४॥
सुषुम्नायां
तथाभ्यासात्सततं
वायुना भवेत्
।
रुद्रग्रन्थिं
ततो भित्त्वा
ततो याति
शिवात्मकम् ॥
११५॥
चन्द्रसूर्यौ
समौ कृत्वा
तयोर्योगः
प्रवर्तते ।
गुणत्रयमतीतं
स्याद्ग्रन्थित्रयविभेदनात्
॥ ११६॥
शिवशक्तिसमायोगे
जायते परमा
स्थितिः ।
यथा करी
करेणैव
पानीयं
प्रपिबेत्सदा
॥ ११७॥
सुषुम्नावज्रनालेन
पवमानं
ग्रसेत्तथा ।
वज्रदण्डसमुद्भूता
मणयश्चैकविंशतिः
॥ ११८॥
सुषुम्नायां
स्थितः सर्वे
सूत्रे
मणिगणा इव ।
मोक्षमार्गे
प्रतिष्ठानात्सुषुम्ना
विश्वरूपिणी
॥ ११९॥
यथैव
निश्चितः
कालश्चन्द्रसूर्यनिबन्धनात्
।
आपूर्य
कुम्भितो
वायुर्बहिर्नो
याति साधके ॥
१२०॥
पुनःपुनस्तद्वदेव
पश्चिमद्वारलक्षणम्
।
पूरितस्तु स
तद्द्वारैरीषत्कुम्भकतां
गतः ॥ १२१॥
प्रविशेत्सर्वगात्रेषु
वायुः
पश्चिममार्गतः
।
रेचितः
क्षीणतां
याति पूरितः
पोषयेत्ततः ॥ १२२॥
यत्रैव जातं
सकलेवरं मन
स्तत्रैव
लीनं कुरुते स
योगात् ।
स एव मुक्तो
निरहंकृतिः
सुखी
मूढा
न जानन्ति हि
पिण्डपातिनः
॥ १२३॥
चित्तं
विनिष्टं यदि
भासितं स्या
त्तत्र
प्रतीतो
मरुतोऽपि
नाशः ।
न चेद्यदि
स्यान्न तु
तस्य
शास्त्रं
नात्मप्रतीतिर्न
गुरुर्न
मोक्षः ॥ १२४॥
जलूका रुधिरं
यद्वद्बलादाकर्षति
स्वयम् ।
ब्रह्मनाडी
तथा
धातून्सन्तताभ्यासयोगतः
॥ १२५॥
अनेनाभ्यासयोगेन
नित्यमासनबन्धतः
।
चित्तं
विलीनतामेति
बिन्दुर्नो
यात्यधस्तथा
॥ १२६॥
रेचकं पूरकं
मुक्त्वा
वायुना
स्थीयते स्थिरम्
।
नाना नादाः
प्रवर्तन्ते
संस्रवेच्चन्द्रमण्डलम्
॥ १२७॥
नश्यन्ति
क्षुत्पिपासाद्याः
सर्वदोषास्ततस्तदा
।
स्वरूपे
सच्चिदानन्दे
स्थितिमाप्नोति
केवलम् ॥ १२८॥
कथितं तु तव
प्रीत्या
ह्येतदभ्यासलक्षणम्
।
मन्त्रो लयो
हठो
राजयोगोऽन्तर्भूमिकाः
क्रमात् ॥
१२९॥
एक एव
चतुर्धाऽयं
महायोगोऽभिधीयते
।
हकारेण
बहिर्याति
सकारेण
विशेत्पुनः ॥
१३०॥
हंसहंसेति
मन्त्रोऽयं
सर्वैर्जीवश्च
जप्यते ।
गुरुवाक्यात्सुषुम्नायां
विपरीतो
भवेज्जपः ॥
१३१॥
सोऽहंसोऽहमिति
प्रोक्तो
मन्त्रयोगः स
उच्यते ।
प्रतीतिर्मन्त्रयोगाच्च
जायते
पश्चिमे पथि ॥
१३२॥
हकारेण तु
सूर्यः
स्यात्सकारेणेन्दुरुच्यते
।
सूर्याचन्द्रमसोरैक्यं
हठ
इत्यभिधीयते
॥ १३३॥
हठेन
ग्रस्यते
जाड्यं
सर्वदोषसमुद्भवम्
।
क्षेत्रज्ञः
परमात्मा च
तयोरैक्यं
यदा भवेत् ॥
१३४॥
तदैक्ये
साधिते
ब्रह्मंश्चित्तं
याति विलीनताम्
।
पवनः
स्थैर्यमायाति
लययोगोदये
सति ॥ १३५॥
लयात्संप्राप्यते
सौख्यं
स्वात्मानदं
परं पदम् ।
योनिमध्ये
महाक्षेत्रे
जपाबन्धूकसंनिभम्
॥ १३६॥
रजो वसति
जन्तूनां
देवीतत्त्वं
समावृतम् ।
रजसो रेतसो
योगाद्राजयोग
इति स्मृतः ॥
१३७॥
अणिमादिपदं
प्राप्य
राजते
राजयोगतः ।
प्राणापानसमायोगो
ज्ञेयं
योगचतुष्टयम्
॥ १३८॥
संक्षेपात्कथितं
ब्रह्मन्नान्यथा
शिवभाषितम् ।
क्रमेण
प्राप्यते
प्राप्यमभ्यासादेव
नान्यथा ॥
१३९॥
एकेनैव
शरीरेण
योगाभ्यासाच्च्हनैःशनैः
।
चिरात्संप्राप्यते
मुक्तिर्मर्कटक्रम
एव सः ॥ १४०॥
योगसिद्धिं
विना देहः
प्रमादाद्यदि
नश्यति ।
पूर्ववासनया
युक्तः शरीरं
चान्यदाप्नुयात्
॥ १४१॥
ततः
पुण्यवशात्सिद्धो
गुरुणा सह
संगतः ।
पश्चिमद्वारमार्गेण
जायते
त्वरितं फलम्
॥ १४२॥
पूर्वजन्मकृताभ्यासात्सत्त्वरं
फलमश्नुते ।
एतदेव हि
विज्ञेयं
तत्काकमतमुच्यते
॥ १४३॥
नास्ति
काकमतादन्यदभ्यासाख्यमतः
परम् ।
तेनैव
प्राप्यते
मुक्तिर्नान्यथा
शिवभाषितम् ॥
१४४॥
हठयोगक्रमात्काष्ठासहजीवलयादिकम्
।
नाकृतं
मोक्षमार्गं
स्यात्प्रसिद्धां
पश्चिमं विना
॥ १४५॥
आदौ रोगाः
प्रणश्यन्ति
पश्चाज्जाड्यं
शरीरजम् ।
ततः समरसो
भूत्वा
चन्द्रो
वर्षत्यनारतम्
॥ १४६॥
धातूंश्च
संग्रहेद्वह्निः
पवनेन
समन्ततः ।
नाना नादाः
प्रवर्तन्ते
मार्दवं
स्यात्कलेवरे
॥ १४७॥
जित्वा
वृष्ट्यादिकं
जाड्यं खेचरः
स भवेन्नरः ।
सर्वज्ञोसौ
भवेत्कामरूपः
पवनवेगवान् ॥
१४८॥
क्रीडते त्रिषु
लिकेषु
जायन्ते
सिद्धयोऽखिलाः
।
कर्पूरे
लीयमाने किं
काठिन्यं
तत्र विद्यते
॥ १४९॥
अहंकारक्षये
तद्वद्देहे
कठिना कुतः ।
सर्वकर्ता च
योगीन्द्रः
स्वतन्त्रोऽनन्तरूपवान्
॥ १५०॥
जीवन्मुक्तो
महायोगी
जायते नात्र
संशयः ।
द्विविधाः
सिद्धयो लोके
कल्पिताऽकल्पितास्तथा
॥ १५१॥
रसौषधिक्रियाजालमन्त्राभ्यासाधिसाधनात्
।
सिद्ध्यन्ति
सिद्धयो
यास्तु
कल्पितास्ताः
प्रकीर्तिताः
॥ १५२॥
अनित्या
अल्पवीर्यास्ताः
सिद्धयः
साधनोद्भवाः
।
साधनेन
विनाप्येवं
जायन्ते स्वत
एव हि ॥ १५३॥
स्वात्मयोगैकनिष्ठेषु
स्वातन्त्र्याद्दीश्वरप्रियाः
।
प्रभूताः
सिद्धयो
यास्ताः
कल्पनारहिताः
स्मृताः ॥
१५४।
सिद्धानित्या
महावीर्या
इच्च्हारूपाः
स्वयोगजाः ।
चिरकालात्प्रजायन्ते
वासनारहितेषु
च ॥ १५५॥
तास्तु
गोप्या
महायोगात्परमात्मपदेऽव्यये
।
विना कार्यं
सदा गुप्तं
योगसिद्धस्य
लक्षणम् ॥
१५६॥
यथाकाशं
समुद्दिश्य
गच्च्हद्भिः
पथिकैः पथि ।
नाना
तीर्थानि
दृश्यन्ते
नानामार्गास्तु
सिद्धयः ॥
१५७॥
स्वयमेव
प्रजायन्ते
लाभालाभविवर्जिते
।
योगमार्गे
तथैवेदं
सिद्धिजालं
प्रवर्तते ॥
१५८॥
परीक्षकैः
स्वर्णकारैर्हेम
संप्रोच्यते यथा
।
सिधिभिर्लक्षयेत्सिद्धं
जीवन्मुक्तं
तथैव च ॥ १५९॥
अलौकिकगुणस्तस्य
कदाचिद्दृश्यते
ध्रुवम् ।
सिद्धिभिः
परिहीनं तु
नरं बद्धं तु
लक्षयेत् ॥
१६०॥
अजरामरपिण्डो
यो
जीवन्मुक्तः
स एव हि ।
पशुकुक्कुटकीटाद्या
मृतिं
संप्राप्नुवन्ति
वै ॥ १६१॥
तेषां किं
पिण्डपातेन
मुक्तिर्भवति
पद्मज ।
न बहिः प्राण
आयाति
पिण्डस्य
पतनं कुतः ॥
१६२॥
पिण्डपातेन
या मुक्तिः सा
मुक्तिर्न तु
हन्यते ।
देहे
ब्रह्मत्वमायाते
जलानां
सैन्धवं यथा ॥
१६३॥
अनन्यतां यदा
याति तदा
मुक्तः स
उच्यते ।
विमतानि
शरीराणि
इन्द्रियाणि
तथैव च ॥ १६४॥
ब्रह्म
देहत्वमापन्नं
वारि
बुद्बुदतामिव
।
दशद्वार पुरं
देहं
दशनाडीमहापथम्
॥ १६५॥
दशभिर्वायुभिर्व्याप्तं
दशेन्द्रियपरिच्च्हदम्
।
षडाधारापवरकं
षडन्वयमहावनम्
॥ १६६॥
चतुःपीठसमाकीर्णं
चतुराम्नायदीपकम्
।
बिन्दुनादमहालिङ्गं
शिवशक्तिनिकेतनम्
॥ १६७॥
देहं शिवालयं
प्रोक्तं
सिद्धिदं
सर्वदेहिनाम्
।
गुदमेढ्रान्तरालस्थं
मूलाधारं
त्रिकोणकम् ॥
१६८॥
शिवस्य
जीवरूपस्य
स्थानं तद्धि
प्रचक्षते ।
यत्र
कुण्डलिनीनाम
परा शक्तिः
प्रतिष्ठिता
॥ १६९॥
यस्मादुत्पद्यते
वायुर्यस्माद्वह्निः
प्रवर्तते ।
यस्मादुत्पद्यते
बिन्दुर्यस्मान्नादः
प्रवर्तते ॥
१७०॥
यस्मादुत्पद्यते
हंसो
यस्मादुत्पद्यते
मनः ।
तदेतत्कामरूपाख्यं
पीठं
कामफलप्रदम्
॥ १७१॥
स्वाधिष्ठानाह्वयं
चक्रं
लिङ्गमूले
षडस्रके ।
नाभिदेशे
स्थितं चक्रं
दशारं
मणिपूरकम् ॥ १७२॥
द्वादशारं
महाचक्रं
हृदये
चाप्यनाहतम्
।
तदेतत्पूर्णगिर्याख्यं
पीठं कमलसंभव
॥ १७३॥
कण्ठकूपे
विशुद्ध्याख्यं
यच्चक्रं
षोडशास्रकम्
।
पीठं जालन्धर
नाम
तिष्ठत्यत्र
सुरेश्वर ॥ १७४॥
आज्ञा नाम
भ्रुवोर्मध्ये
द्विदलं
चक्रमुत्तमम्
।
उड्यानाख्यं
महापीठमुपरिष्टात्प्रतिष्ठितम्
॥ १७५॥
चतुरस्रं
धरण्यादौ
ब्रह्मा
तत्राधिदेवता
।
अर्धचन्द्राकृति
चलं
विष्णुस्तस्याधिदेवता
॥ १७६॥
त्रिकोणमण्डलं
वह्नी
रुद्रस्तस्याधिदेवता
।
वायोर्बिम्बं
तु
षट्कोणमीश्वरोऽस्याधिदेवता
॥ १७७॥
आकाशमण्डलं
वृत्तं
देवतास्य
सदाशिवः ।
नादरूपं
भ्रुवोर्मध्ये
मनसो मण्डलं
विदुः ॥ १७८॥
इति
प्रथमोऽध्यायः
॥ १॥
पुनर्योगस्य
माहात्म्यं
श्रोतुमिच्च्हामि
शङ्कर ।
यस्य
विज्ञानमात्रेण
खेचरीसमतां
व्रजेत् ॥ १॥
शृणु
ब्रह्मन्प्रवक्ष्यामि
गोपनीयं प्रयत्नतः
।
द्वादशाब्दं
तु शुश्रूषां
यः
कुर्यादप्रमादतः
॥ २॥
तस्मै वाच्यं
यथातथ्यं
दान्ताय
ब्रह्मचारिणे
।
पाण्डित्यादर्थलोभाद्वा
प्रमादाद्वा
प्रयच्च्हति
॥ ३॥
तेनाधीतं
श्रुतं तेन
तेन
सर्वमनुष्ठितम्
।
मूलमन्त्रं
विजानाति यो
विद्वान्गुरुदर्शितम्
॥ ४॥
शिवशक्तिमयं
मन्त्रं
मूलाधारात्समुत्थितम्
।
तस्य
मन्त्रस्य वै
ब्रह्मञ्च्ह्रोता
वक्ता च
दुर्लभः ॥ ५॥
एतत्पीठमिति
प्रोक्तं
नादलिङ्गं
चिदात्मकम् ।
तस्य
विज्ञानमात्रेण
जीवन्मुक्तो
भवेज्जनः ॥ ६॥
अणिमादिकमैश्वर्यमचिरादेव
जायते ।
मननात्प्राणनाच्चैव
मद्रूपस्यावबोधनात्
॥ ७॥
मन्त्रमित्युच्यते
ब्रह्मन्मदधिष्ठानतोऽपि
वा ।
मूलत्वात्सर्वमन्त्राणां
मूलाधारात्समुद्भवात्
॥ ८॥
मूलस्वरूपलिङ्गत्वान्मूलमन्त्र
इति स्मृतः ।
सूक्ष्मत्वात्कारणात्वाच्च
लयनाद्गमनादपि
॥ ९॥
लक्षणात्परमेशस्य
लिङ्गमित्यभिधीयते
।
संनिधानात्समस्तेषु
जन्तुष्वपि च
सन्ततम् ॥ १०॥
सूचकत्वाच्च
रूपस्य
सूत्रमित्यभिधीयते
।
महामाया
महालक्ष्मीर्महादेवी
सरस्वती ॥ ११॥
आधारशक्तिरव्यक्ता
यया विश्वं
प्रवर्तते ।
सूक्ष्माभा
बिन्दुरूपेण
पीठरूपेण
वर्तते ॥ १२॥
बिन्दुपीठं
विनिर्भिद्य
नादलिङ्गमुपस्थितम्
।
प्राणेनोच्चार्यते
ब्रह्मन्षण्मुखीकरणेन
च ॥ १३॥
गुरूपदेशमार्गेण
सहसैव
प्रकाशते ।
स्थूलं
सूक्ष्मं परं
चेति
त्रिविधं
ब्रह्मणो
वपुः ॥ १४॥
पञ्चब्रह्ममयं
रूपं स्थूलं
वैराजमुच्यते
।
हिरण्यगर्भं
सूक्ष्मं तु
नादं
बीजत्रयात्मकम्
॥ १५॥
परं ब्रह्म
परं सत्यं
सच्चिदानन्दलक्षणम्
।
अप्रमेयमनिर्देश्यमवाङ्मनसगोचरम्
॥ १६॥
शुद्धं
सूक्ष्मं
निराकारं
निर्विकारं
निरञ्जनम् ।
अनन्तमपरिच्च्हेद्यमनूपममनामयम्
॥ १७॥
आत्ममन्त्रसदाभ्यासात्परतत्त्वं
प्रकाशते ।
तदभिव्यक्तचिह्नानि
सिद्धिद्वाराणि
मे शृणु ॥ १८॥
दीपज्वालेन्दुखद्योतविद्युन्नक्षत्रभास्वराः
।
दृश्यन्ते
सूक्ष्मरूपेण
सदा युक्तस्य
योगिनः ॥ १९॥
अणिमादिकमैश्वर्यमचिरात्तस्य
जायते ।
नास्ति
नादात्परो
मन्त्रो न
देवः
स्वात्मनः
परः ॥ २०॥
नानुसन्धेः
परा पूजा न हि
तृप्तेः परं
मुखम् ।
गोपनीयं
प्रयत्नेन
सर्वदा
सिद्धिमिच्च्हता
।
मद्भक्त
एतद्विज्ञाय
कृत कृत्यः
सुखी भवेत् ॥
२१॥
यस्य देवे परा
भक्तिर्यथा
देवे तथा गुरौ
।
तस्यैते
कथिता
ह्यर्थाः
प्रकाशन्ते
महात्मनः ॥
२२॥ इति ॥
इति
द्वितीयोऽध्यायः
॥ २॥
यन्नमस्यं
चिदाख्यातं
यत्सिद्धीनां
च कारणम् ।
येन
विज्ञातमात्रेण
जन्मबन्धात्प्रमुच्यते
॥ १॥
अक्षरं परमो
नादः
शब्दब्रह्मेति
कथ्यते ।
मूलाधारगता
शक्तिः
स्वाधारा
बिन्दुरूपिणी
॥ २॥
तस्यामुत्पद्यते
नादः
सूक्ष्मबीजादिवाङ्कुरः
।
तां
पश्यन्तीं
विदुर्विश्वं
यया पश्यन्ति योगिनः
॥ ३॥
हृदये
व्यज्यते
घोषो
गर्जत्पर्जन्यसंनिभः
।
तत्र स्थिता
सुरेशान
मध्यमेत्यभिधीयते
॥ ४॥
प्राणेन च
स्वराख्येन
प्रथिता
वैखरी पुनः ।
शाखापल्लवरूपेण
ताल्वादिस्थानघट्टनात्
॥ ५॥
अकारादिक्षकारान्तान्यक्षराणि
समीरयेत् ।
अक्षरेभ्यः
पदानि स्युः
पदेभ्यो
वाक्यसंभवः ॥
६॥
सर्वे
वाक्यात्मका
मन्त्रा
वेदशास्त्राणि
कृत्स्नशः ।
पुराणानि च
काव्यानि
भाषाश्च
विविधा अपि ॥
७॥
सप्तस्वराश्च
गाथाश्च
सर्वे
नादसमुद्भवाः
।
एषा सरस्वती
देवी
सर्वभूतगुहाश्रया
॥ ८॥
वायुना
वह्नियुक्तेन
प्रेर्यमाणा
शनैः शनैः ।
तद्विवर्तपदैर्वाक्यैरित्येवं
वर्तते सदा ॥
९॥
य इमां वैखरी
शक्तिं योगी
स्वात्मनि
पश्यति ।
स
वाक्सिद्धिमवाप्नोति
सरस्वत्याः
प्रसादतः ॥ १०॥
वेदशास्त्रपुराणानां
स्वयं कर्ता
भविष्यति ।
यत्र
बिन्दुश्च
नादश्च
सोमसूर्याग्निवायवः
॥ ११॥
इन्द्रियाणि
च सर्वाणि लयं
गच्च्हन्ति
सुव्रत ।
वायवो यत्र
लीयन्ते मनो
यत्र विलीयते
॥ १२॥
यं लब्ध्वा
चापरं लाभं
मन्यते
नाधिकं ततः ।
यस्मिंस्थितो
न दुःखेन
गुरुणापि
विचाल्यते ॥
१३॥
यत्रोपरमते
चित्तं
निरुद्धं
योगसेवया ।
यत्र
चैवात्मनात्मानं
पश्यन्नात्मनि
तुष्यति ॥ १४॥
सुखमात्यन्तिकं
यत्तद्बुद्धिग्राह्यमतीन्द्रियम्
।
एतत्क्षराक्षरातीतमनक्षरमितीर्यते
॥ १५॥
क्षरः
सर्वाणि
भूतानि
सूत्रात्माऽक्षर
उच्यते ।
अक्षरं परमं
ब्रह्म निर्विशेषं
निरञ्जनम् ॥
१६॥
अलक्षणमलक्षं
तदप्रतर्क्यमनूपमम्
।
अपारपारमच्च्हेद्यमचिन्त्यमतिनिर्मलम्
॥ १७॥
आधारं
सर्वभूतानामनाधारमनामयम्
।
अप्रमाणमनिर्देश्यमप्रमेयमतीन्द्रियम्
॥ १८॥
अस्थूलमनणुह्रस्वमदीर्घमजमव्ययम्
।
अशब्दमस्पर्शरूपमचक्षुःश्रोत्रनामकम्
॥ १९॥
सर्वज्ञं
सर्वगं
शान्तं
सर्वेषां
हृदये स्थितम्
।
सुसंवेद्यं
गुरुमतात्सुदुर्बोधमचेतसाम्
॥ २०॥
निष्कलं
निर्गुणं
शान्तं
निर्विकारं
निराश्रयम् ।
निर्लेपकं
निरापायं
कूटस्थमचलं
ध्रुवम् ॥ २१॥
ज्योतिषामपि
तज्ज्योतिस्तमःपारे
प्रतिष्ठितम्
।
भावाभावविनिर्मुक्तं
भावनामात्रगोचरम्
॥ २२॥
भक्तिगम्यं
परं
तत्त्वमन्तर्लीनेन
चेतसा ।
भावनामात्रमेवात्र
कारणं
पद्मसंभव ॥
२३॥
यथा
देहान्तरप्राप्तेः
कारणं भावना
नृणाम् ।
विषयं
ध्यायतः
पुंसो विषये
रमते मनः ॥
२४॥
मामनुस्मरतश्चित्तं
मय्येवात्र
विलीयते ।
सर्वज्ञत्वं
परेशत्वं
सर्वसंपूर्णशक्तिता
।
अनन्तशक्तिमत्त्वं
च
मदनुस्मरणाद्भवेत्
॥ २५॥ इति॥
इति
तृतीयोऽध्यायः
॥ ३॥
चैतनस्यैकरूपत्वद्भेदो
युक्तो न
कर्हिचित् ।
जीवत्वं च तथा
ज्ञेयं
रज्ज्वां
सर्पग्रहो यथा
॥ १॥
रज्ज्वज्ञानात्क्षणेनैव
यद्वद्रज्जुर्हि
सर्पिणी ।
भाति
तद्वच्चितिः
साक्षाद्विश्वाकारेण
केवला ॥ २॥
उपादानं
प्रपञ्चस्य
ब्रह्मणोऽन्यन्न
विद्यते ।
तस्मात्सर्वप्रपञ्चोऽयं
ब्रह्मैवास्ति
न चेतरत् ॥ ३॥
व्याप्यव्याप्यकता
मिथ्या
सर्वमात्मेति
शासनात् ।
इति ज्ञाते
परे तत्त्वे
भेदस्यावसरः
कुतः ॥ ४॥
ब्रह्मणः
सर्वभूतानि
जायन्ते
परमात्मनः ।
तस्मादेतानि
ब्रह्मैव
भवन्तीति
विचिन्तय ॥ ५॥
ब्रह्मैव
सर्वनामानि
रूपाणि
विविधानि च ।
कर्माण्यपि
समग्राणि
बिभर्तीति
विभावय ॥ ६॥
सुवर्णाज्जायमानस्य
सुवर्णत्वं च
शाश्वतम् ।
ब्रह्मणो
जायमानस्य
ब्रह्मत्वं च
तथा भवेत् ॥
७॥
स्वल्पमप्यन्तरं
कृत्वा
जीवात्मपरमात्मनोः
।
यस्तिष्ठति
विमूढात्मा
भयं तस्यापि
भाषितम् ॥ ८॥
यदज्ञानद्भवेद्द्वैतमितरत्तत्प्रपश्यति
।
आत्मत्वेन
तदा सर्वं
नेतरत्तत्र
चाण्वपि ॥ ९॥
अनुभूतोऽप्ययं
लोको
व्यवहारक्षमोऽपि
सन् ।
असद्रूपो यथा
स्वप्न
उत्तरक्षणबाधितः
॥ १०॥
स्वप्ने
जागरितं
नास्ति जागरे
स्वप्नता नहि
।
द्वयमेव लये
नास्ति
लयोऽपि
ह्यनयोर्न च ॥
११॥
त्रयमेव
भवेन्मिथ्या
गुणत्रयविनिर्मितम्
।
अस्य द्रष्टा
गुणातीतो
नित्यो ह्येष
चिदात्मकः ॥
१२॥
यद्वन्मृदि
घटभ्रान्तिः
शुक्तौ हि
रजतस्थितिः ।
तद्वद्ब्रह्मणि
जीवत्वं
वीक्षमाणे
विनश्यति ॥
१३॥
यथा मृदि घटो
नाम कनके
कुण्डलाभिधा
।
शुक्तौ हि
रजतख्यातिर्जीवशब्दस्तथा
परे ॥ १४॥
यथैव
व्योम्नि
नीलत्वं यथा
नीरं
मरुस्थले ।
पुरुषत्वं
यथा स्थाणौ
तद्वद्विश्वं
चिदात्मनि ॥
१५॥
यथैव शून्यो
वेतालो
गन्धर्वाणं
पुरं यथा ।
यथाकाशे
द्विचन्द्रत्वं
तद्वत्सत्ये
जगत्स्थितिः
॥ १६॥
यथा
तरङ्गकल्लोलैर्जलमेव
स्फुरत्यलम्
।
घटनाम्ना यथा
पृथ्वी
पटनाम्ना हि
तन्तवः ॥ १७॥
जगन्नाम्ना
चिदाभाति
सर्वं
ब्रह्मैव
केवलम् ।
यथा
वन्ध्यासुतो
नास्ति यथा
नस्ति मरौ
जलम् ॥ १८॥
यथा नास्ति
नभोवृक्षस्तथा
नास्ति
जगत्स्थितिः
।
गृह्यमाने
घटे
यद्वन्मृत्तिका
भाति वै बलात्
॥ १९॥
वीक्ष्यमाणे
प्रपञ्चे तु
ब्रह्मैवाभाति
भासुरम् ।
सदैवात्मा
विशुद्धोऽस्मि
ह्यशुद्धो
भाति वै सदा ॥
२०॥
यथैव
द्विविधा
रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम्
।
यथैव मृन्मयः
कुंभस्तद्वद्देहोऽपि
चिन्मयः ॥ २१॥
आत्मानात्मविवेकोऽयं
मुधैव
क्रियते बुधैः
॥
सर्पत्वेन
यथा रज्जू
रजतत्वेन
शुक्तिका ॥ २२॥
विनिर्णीता
विमूढेन
देहत्वेन
तथात्मता ।
घटत्वेन यथा
पृथ्वी
जलत्वेन
मरीचिका ॥ २३॥
गृहत्वेन हि
काष्ठानि
खड्गत्वेन हि
लोहता ।
तद्वदात्मनि
देहत्वं
पश्यत्यज्ञानयोगतः
॥ २४॥ इति॥
इति
चतुर्थोऽध्यायः
॥ ४॥
पुनर्योगं
प्रवक्ष्यामि
गुह्यं
ब्रह्मस्वरूपकम्
।
समाहितमनाअ
भूत्वा शृणु
ब्रह्मन्यथाक्रमम्
॥ १॥
दशद्वारपुरं
देहं
दशनाडीमहापथम्
।
दशभिर्वायुभिर्व्याप्तं
दशेन्द्रियपरिच्च्हदम्
॥ २॥
षडाधारापवरकं
षडन्वयमहावनम्
।
चतुःपीठसमाकीर्णं
चतुराम्नायदीपकम्
॥ ३॥
बिन्दुनादमहालिङ्गविष्णुलक्ष्मीनिकेतनम्
।
देहं
विष्ण्वालयं
प्रोक्तं
सिद्धिदं
सर्वदेहिनाम्
॥ ४॥
गुदमेढ्रान्तरालस्थं
मूलाधारं
त्रिकोणकम् ।
शिवस्य
जीवरूपस्य
स्थानं तद्धि
प्रचक्षते ॥
५॥
यत्र
कुण्डलिनी
नाम परा
शक्तिः
प्रतिष्ठिता
।
यस्मादुत्पद्यते
वायुर्यस्माद्वह्निः
प्रवर्तते ॥
६॥
यस्मादुत्पद्यते
बिन्दुर्यस्मान्नादः
प्रवर्तते ।
यस्मादुत्पद्यते
हंसो
यस्मादुत्पद्यते
मनः ॥ ७॥
तदेतत्कामरूपाख्यं
पीठं
कामफलप्रदम्
।
स्वाधिष्ठानह्वयं
चक्रं
लिङ्गमूले
षडस्रकम् ॥ ८॥
नाभिदेशे
स्थितं चक्रं
दशास्रं
मणिपूरकम् ।
द्वादशारं
महाचक्रं
हृदये
चाप्यनाहतम्
॥ ९॥
तदेतत्पूर्णगिर्याख्यं
पीठं कमलसंभव
।
कण्ठकूपे
विशुद्धाख्यं
यच्चक्रं
षोडशास्रकम्
॥ १०॥
पीठं
जालन्धरं नाम
तिष्ठत्यत्र
चतुर्मुख ।
आज्ञा नाम
भ्रुवोर्मध्ये
द्विदलं
चक्रमुत्तमम्
॥ ११॥
उड्यानाख्यं
महापीठमुपरिष्टात्प्रतिष्ठितम्
।
स्थानान्येतानि
देहेऽस्मिञ्च्हक्तिरूपं
प्रकाशते ॥
१२॥
चतुरस्रधरण्यादौ
ब्रह्मा
तत्राधिदेवता
।
अर्धचन्द्राकृति
जलं
विष्णुस्तस्याधिदेवता
॥ १३॥
त्रिकोणमण्डलं
वह्नी
रुद्रस्तस्याधिदेवता
।
वायोर्बिंबं
तु षट्कोणं
संकर्षोऽत्राधिदेवता
॥ १४॥
आकाशमण्डलं
वृत्तं
श्रीमन्नारायणोऽत्राधिदेवता
।
नादरूपं
भ्रुवोर्मध्ये
मनसो मण्डलं
विदुः ॥ १५॥
शांभवस्थानमेतत्ते
वर्णितं
पद्मसंभव ।
अतः परं
प्रवक्ष्यामि
नाडीचक्रस्य
निर्णयम् ॥
१६॥
मूलाधारत्रिकोणस्था
सुषुम्ना
द्वादशाङ्गुला
।
मूलार्धच्च्हिन्नवंशाभा
ब्रह्मनाडीति
सा स्मृता ॥
१७॥
इडा च पिङ्गला
चैव तस्याः
पार्श्वद्वये
गते ।
विलंबिन्यामनुस्यूते
नासिकान्तमुपागते
॥ १८॥
इडायां
हेमरूपेण
वायुर्वामेन
गच्च्हति ।
पिङ्गलायां
तु
सूर्यात्मा
याति
दक्षिणपार्श्वतः
॥ १९॥
विलंबिनीति
या नाडी
व्यक्ता नाभौ
प्रतिष्ठिता
।
तत्र नाड्यः
समुत्पन्नस्तिर्यगूर्ध्वमधोमुखाः
॥ २०॥
तन्नाभिचक्रमित्युक्तं
कुक्कुटाण्डमिव
स्थितम् ।
गान्धारी
हस्तिजिह्वा
च
तस्मान्नेत्रद्वयं
गते ॥ २१॥
पूषा
चालम्बुसा
चैव
श्रोत्रद्वयमुपागते
।
शूरा नाम
महानाडी
तस्माद्भ्रूमध्यमाश्रिता
॥ २२॥
विश्वोदरी तु
या नाडी सा
भुङ्क्तेऽन्नं
चतुर्विधम् ।
सरस्वती तु या
नाडी सा
जिह्वान्तं
प्रसर्पति ॥
२३॥
राकाह्वया तु
या नाडी
पीत्वा च सलिलं
क्षणात् ।
क्षुतमुत्पादयेद्
घ्राणे
श्लेष्माणं
संचिनोति च ॥
२४॥
कण्ठकूपोद्भवा
नाडी
शङ्खिनाख्या
त्वधोमुखी ।
अन्नसारं
समादाय
मूर्ध्नि
संचिनुते सदा
॥ २५॥
नाभेरधोगतास्तिस्रो
जाडयः
स्युरधोमुखः
।
मलं
त्यजेत्कुहूर्नाडी
मूत्रं
मुञ्चति वारुणी
॥ २६॥
चित्राख्या
सीविनि नाडी
शुक्लमोचनकारणी
।
नाडीचक्रमिति
प्रोक्तं
बिन्दुरूपमतः
शृणु ॥ २७॥
स्थूलं
सूक्ष्मं परं
चेति
त्रिविधं
ब्रह्मणो
वपुः ।
स्थूलं
शुक्लात्मकं
बिन्दुः
सूक्ष्मं पञ्चाग्निरूपकम्
॥ २८॥
सोमात्मकः
परः प्रोक्तः
सदा साक्षी
सदाच्युतः ।
पातालानामधोभागे
कालाग्निर्यः
प्रतिष्ठितः
॥ २९॥
समूलाग्निः
शरीरेऽग्निर्यस्मान्नादः
प्रजायते ।
वडवाग्निः
शरीरस्थो
ह्यस्थिमध्ये
प्रवर्तते ॥
३०॥
काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये
प्रवर्तते ।
काष्ठपाषणजो
वह्निः
पार्थिवो
ग्रहणीगतः॥ ३१॥
अन्तरिक्षगतो
वह्निर्वैद्युतः
स्वान्तरात्मकः
।
नभस्थः
सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः
॥ ३२॥
विषं वर्षति
सूर्योऽसौ
स्रवत्यमृतमुन्मुखः
।
तालुमूले
स्थितश्चन्द्रः
सुधां
वर्षत्यधोमुखः
॥ ३३॥
भ्रूमध्यनिलयो
बिन्दुः
शुद्धस्फटिकसंनिभः
।
महाविष्णोश्च
देवस्य
तत्सूक्ष्मं
रूपमुच्यते ॥
३४॥
एतत्पञ्चाग्निरूपं
यो
भावयेद्बुद्धिमान्धिया
।
तेन भुक्तं च
पीतं च हुतमेव
न संशयः ॥ ३५॥
सुखसंसेवितं
स्वप्नं
सुजीर्णमितभोजनम।ज्
।
शरीरशुद्धिं
कृत्वादौ
सुखमासनमास्थितः
॥ ३६॥
प्राणस्य
शोधयेन्मार्गं
रेचपूरककुम्भकैः
।
गुदमाकुञ्च्य
यत्नेन
मूलशक्तिं
प्रपूजयेत् ॥
३७॥
नाभौ
लिङ्गस्य
मध्ये तु
उड्यानाख्यं
च बन्धयेत् ।
उड्डीय याति
तेनैव
शक्तितोड्यानपीठकम्
॥ ३८॥
कण्ठं
सङ्कोचयेत्किंचिद्बन्धो
जालन्धरि ह्ययम्
।
बन्धयेत्खेचरि
मुद्रां
दृढचित्तः
समाहितः ॥ ३९॥
कपालविवरे
जिह्वा
प्रविष्टा
विपरीतगा ।
भ्रुवोरन्तर्गता
दृष्टिर्मुद्रा
भवति खेचरी ॥
४०॥
खेचर्या
मुद्रितं येन
विवरं
लम्बिकोर्ध्वतः
।
न पीयूषं
पतत्यग्नौ न च
वायुः
प्रधावति ॥
४१॥
न क्षुधा न
तृषा निद्रा
नैवालस्यं
प्रजायते ।
न च
मृत्युर्भवेत्तस्य
यो मुद्रां
वेत्ति खेचरीम्
॥ ४२॥
ततः
पूर्वापरे
व्योम्नि
द्वादशान्तेऽच्युतात्मके
।
उड्ड्यानपीठे
निर्द्वन्द्वे
निरालम्बे निरञ्जने
॥ ४३॥
ततः
पङ्कजमध्यस्थं
चन्द्रमण्डलमध्यगम्
।
नारायणमनुध्यायेत्स्रवतममृतं
सदा ॥ ४४॥
भिद्यते
हृदयग्रन्थिश्च्हिद्यन्ते
सर्वसंशयाः ।
क्षीयन्ते
चास्य
कर्माणि
तस्मिद्नृष्टे
परावरे ॥ ४५॥
अथ सिद्धिं
प्रवक्ष्यामि
सुखोपायं
सुरेश्वर ।
जितेन्द्रियाणां
शान्तानां
जितश्वासविचेतसाम्
॥ ४६॥
नादे मनोलयं
ब्रह्मन्दूरश्रवणकारणम्
।
बिन्दौ
मनोलयं
कृत्वा
दूरदर्शनमाप्नुयात्
॥ ४७॥
कालात्मनि
मनो लीनं
त्रिकालज्ञानकारणम्
।
परकायमनोयोगः
परकायप्रवेशकृत्
॥ ४८॥
अमृतं
चिन्तयेन्मूर्ध्नि
क्षुत्तृषाविषशान्तये
।
पृथिव्यां
धारयेच्चित्तं
पातालगमनं
भवेत् ॥ ४९॥
सलिले
धारयेच्चित्तं
नाम्भसा
परिभूयते ।
अग्नौ
सन्धारयेच्चित्तमग्निना
दह्यते न सः ॥
५०॥
वायौ मनोलयं
कुर्यादाकाशगमनं
भवेत् ।
आकाशे
धारयेच्चित्तमणिमादिकमाप्नुयात्
॥ ५१॥
विराड्रूपे
मनो
युञ्जन्महिमानमवाप्नुयात्
।
चतुर्मुखे
मनो
युञ्जञ्जगत्सृष्टिकरो
भवेत् ॥ ५२॥
इन्द्ररूपिणमात्मानं
भावयन्मर्त्यभोगवान्
।
विष्णुरूपे
महायोगी
पालयेदखिलं
जगत् ॥ ५३॥
रुद्ररूपे
महायोगी
संहरत्येव
तेजसा ।
नारायणे मनो
युञ्जन्सर्वसिद्धिमवाप्नुयात्
॥ ५४॥
यथा
संकल्पयेद्योगी
योगयुक्तो
जितेन्द्रियः
।
तथा
तत्तदवाप्नोति
भाव एवात्र
कारणम् ॥ ५५॥
गुरुर्ब्रह्मा
गुरुर्विष्णुर्गुरुर्देवः
सदाच्युतः ।
न गुरोरधिकः
कश्चित्त्रिषु
लोकेषु
विद्यते ॥ ५६॥
दिव्यज्ञानोपदेष्टारं
देशिकं
परमेश्वरम् ।
पूजयेत्परया
भक्त्या तस्य
ज्ञानफलं
भवेत् ॥ ५७॥
यथा
गुरुस्तथैवेशो
यथैवेशोस्तथा
गुरुः ।
पूजनीयो
महाभक्त्या न
भेदो
विद्यतेऽनयोः
॥ ५८॥
नाद्वैतवादं
कुर्वीत
गुरुणा सह
कुत्रचित् ।
अद्वैतं
भावयेद्भक्त्या
गुरोर्देवस्य
चात्मनः ॥ ५९॥
योगशिखां
महागुह्यं यो
जानाति
महामतिः ।
न तस्य
किंचिदज्ञातं
त्रिषु
लोकेषु
विद्यते ॥ ६०॥
न पुण्यपापे
नास्वस्थो न
दुःखं न
पराजयः ।
न चास्ति
पुनरावृत्तिरस्मिन्संसारमण्डले
॥ ६१॥
सिद्धौ
चित्तं न
कुर्वीत
चञ्चलत्वेन
चेतसः ।
तथा
विज्ञाततत्त्वोऽसौ
मुक्त एव न
संशयः ॥ ६२॥
इत्युपनिषत्
॥ इति
पञ्चमोऽध्यायः
॥ ५॥
उपासनाप्रकारं
मे ब्रूहि
त्वं
परमेश्वर ।
येन
विज्ञातमात्रेण
मुक्तो भवति
संसृतेः ॥ १॥
उपासनाप्रकारं
ते रहस्यं
श्रुतिसारकम्
।
हिरण्यगर्भ
वक्ष्यामि
श्रुत्वा
सम्यगुपासय ॥
२॥
सुषुम्नायै
कुण्डलीन्यै
सुधायै
चन्द्रमण्डलात्
।
मनोन्मन्यै
नमस्तुभ्यं
महाशक्त्यै
चिदात्मने ॥
३॥
शतं चैका च
हृदयस्य
नाड्य
स्तासां
मूर्धानमभिनिःसृतैका
।
तयोर्ध्वमायन्नमृतत्वमेति
विश्वङ्ङ्न्या
उत्क्रमणे
भवन्ति ॥ ४॥
एकोत्तरं
नाडिशतं
तासां मध्ये
परा स्मृता ।
सुषुम्ना तु
परे लीना
विरजा
ब्रह्मरूपिणी
॥ ५॥
इडा तिष्ठति
वामेन
पिङ्गला
दक्षिणेन तु ।
तयोर्मध्ये
परं स्थानं
यस्तद्वेद स
वेदवित् ॥ ६॥
प्राणान्सन्धारयेत्तस्मिन्नासाभ्यान्तरचारिणः
।
भूत्वा
तत्रायतप्राणः
शनैरेव
समभ्यसेत् ॥ ७॥
गुदस्य
पृष्ठभागेऽस्मिन्वीणादन्डः
स देहभृत् ।
दीर्घास्तिदेहपर्यन्तं
ब्रह्मनाडीति
कथ्यते ॥ ८॥
तस्यान्ते
सुषिरं
सूक्ष्मं
ब्रह्मनाडीति
सूरभिः ।
इडापिङ्गलयोर्मध्ये
सुषुम्ना
सूर्यरूपिणी
॥ ९॥
सर्वं
प्रतिष्ठितं
तस्मिन्सर्वगं
विश्वतोमुखम्
।
तस्य
मध्यगताः
सूर्यसोमाग्निपरमेश्वराः
॥ १०॥
भूतलोका दिशः
क्षेत्राः
समुद्राः
पर्वताः शिलाः
।
द्वीपाश्च
निम्नगा
वेदाः
शास्त्रविद्याकलाक्षराः
॥ ११॥
स्वरमन्त्रपुराणानि
गुणाश्चैते च
सर्वशः ।
बीजं
बीजात्मकस्तेषां
क्षेत्रज्ञः
प्राणवायवः ॥
१२॥
सुषुम्नान्तर्गतं
विश्वं
तस्मिन्सर्वं
प्रतिष्ठितम्
।
नानानाडीप्रसवगं
सर्वभूतान्तरात्मनि
॥ १३॥
ऊर्ध्वमूलमधःशाखं
वायुमार्गेण
सर्वगम् ।
द्विसप्ततिसहस्राणि
नाड्यः
स्युर्वायुगोचराः
॥ १४॥
सर्वमार्गेण
सुषिरास्तिर्यञ्चः
सुषिरात्मताः
।
अधश्चोर्ध्वं
च कुण्डल्याः
सर्वद्वारनिरोधनात्
॥ १५॥
वायुना सह
जीवोर्ध्वज्ञानान्मोक्षमवाप्नुयात्
।
ज्ञात्वा
सुषुम्नां
तद्भेदं
कृत्वा पायुं च
मध्यगम् ॥ १६॥
कृत्वा तु
चैन्दवस्थाने
घ्राणरन्ध्रे
निरोधयेत् ।
द्विसप्ततिसहस्राणि
नाडीद्वाराणि
पञ्जरे ॥ १७॥
सुषुम्ना
शाम्भवी
शक्तिः
शेषास्त्वन्ये
निरर्थकाः ।
हृल्लेखे
परमानन्दे
तालुमूले
व्यवस्थिते ॥
१८॥
अत ऊर्ध्वं
निरोधे तु
मध्यमं
मध्यमध्यमम्
।
उच्चारयेत्परां
शक्तिं
ब्रह्मरन्ध्रनिवासिनीम्
।
यदि
भ्रमरसृष्टिः
स्यात्संसारभ्रमणं
त्यजेत् ॥ १९॥
गमागमस्थं
गमनादिशून्यं
चिद्रूपदीपं
तिमिरान्धनाशम्
।
पश्यामि तं
सर्वजनान्तरस्थं
नमामि
हंसं
परमात्मरूपम्
॥ २०॥
अनाहतस्य
शब्दस्य तस्य
शब्दस्य यो
ध्वनिः ।
ध्वनेरन्तर्गतं
ज्योतिर्ज्योतिषोऽन्तर्गतं
मनः ।
तन्मनो विलयं
याति
तद्विष्णोः
परमं पदम् ॥ २१॥
केचिद्वदन्ति
चाधारं
सुषुम्ना च
सरस्वती ।
आधाराज्जायते
विश्वं
विश्वं
तत्रैव लीयते
॥ २२॥
तस्मात्सर्वप्रयत्नेन
गुरुपादं
समाश्रयेत् ।
आधारशक्तिनिद्रायां
विश्वं भवति
निद्रया ॥ २३॥
तस्यां
शक्तिप्रबोधेन
त्रैलोक्यं
प्रतिबुध्यते
।
आधारं यो
विजानाति
तमसः
परमश्नुते ॥
२४॥
तस्य
विज्ञानमात्रेण
नरः पापैः
प्रमुच्यते ॥
२५॥
आधारचक्रमहसा
विद्युत्पुञ्जसमप्रभा
।
तदा
मुक्तिर्न
सन्देहो यदि
तुष्टः स्वयं
गुरुः ॥ २६॥
आधारचक्रमहसा
पुण्यपापे
निकृन्तयेत्
।
आधारवातरोधेन
लीयते
गगनान्तरे ॥
२७॥
आधारवातरोधेन
शरीरं कंपते
यदा ।
आधारवातरोधेन
योगी नृत्यति
सर्वदा ॥ २८॥
आधारवातरोधेन
विश्वं
तत्रैव
दृश्यते ।
सृष्टिमाधारमाधारमाधारे
सर्वदेवताः ।
आधारे
सर्ववेदाश्च
तस्मादाधारमाश्रयेत्
॥ २९॥
आधारे
पश्चिमे भागे
त्रिवेणीसङ्गमो
भवेत् ।
तत्र
स्नात्वा च
पीत्वा च नरः
पापात्प्रमुच्यते
॥ ३०॥
आहारे
पश्चिमं
लिङ्गं कवाटं
तत्र विद्यते
।
तस्योद्घाटनमात्रेण
मुच्यते
भवबन्धनात् ॥
३१॥
आधारपश्चिमे
भागे
चन्द्रसूर्यौ
स्थिरौ यदि ।
तत्र तिष्ठति
विश्वेशो
ध्यात्वा
ब्रह्ममयो
भवेत् ॥ ३२॥
आधारपश्चिमे
भागे
मूर्तिस्तिष्ठति
संज्ञया ।
षट् चक्राणि च
निर्भिद्य
ब्रह्मरन्ध्राद्बहिर्गतम्
॥ ३३॥
वामदक्षे
निरुन्धन्ति
प्रविशन्ति
सुषुम्नया ।
ब्रह्मरन्ध्रं
प्रविश्यान्तस्ते
यान्ति परमां
गतिम् ॥ ३४॥
सुषुम्नायां
यदा
हंसस्त्वध
ऊर्ध्वं
प्रधावति ।
सुषुम्नायां
यदा प्राणं
भ्रामयेद्यो
निरन्तरम् ॥
३५॥
सुषुम्नायां
यदा प्राणः
स्थिरो भवति
धीमताम् ।
सुषुम्नायां
प्रवेशेन
चन्द्रसूर्यौ
लयं गतौ ॥ ३६॥
तदा समरसं
भावं यो
जानाति स
योगवित् ।
सुषुम्नायां
यदा यस्य
म्रियते मनसो
रयः ॥ ३७॥
सुषुम्नायां
यदा योगी
क्षणैकमपि
तिष्टति ।
सुषुम्नायां
यदा योगी
क्षणार्धमपि
तिष्ठति ॥ ३८॥
सुषुम्नायां
यदा योगी
सुलग्नो
लवणाम्बुवत्
।
सुषुम्नायां
यदा योगी
लीयते
क्षीरनीरवत्
॥ ३९॥
भिद्यते च तदा
ग्रन्थिश्चिद्यन्ते
सर्वसंशयाः ।
क्षीयन्ते
परमाकाशे ते
यान्ति परमां
गतिम् ॥ ४०॥
गङ्गायां
सागरे
स्नात्वा
नत्वा च
मणिकर्णिकाम्
।
मध्यनाडीविचारस्य
कलां
नार्हन्ति
षोडशीम् ॥ ४१॥
श्रीशैलदर्शनान्मुक्तिर्वाराणस्यां
मृतस्य च ।
केदारोदकपानेन
मध्यनाडीप्रदर्शनात्
॥ ४२॥
अश्वमेधसहस्राणि
वाजपेयशतानि
च ।
सुषुम्नाध्यानयोगस्य
कलां
नार्हन्ति
षोडशीम् ॥ ४३॥
सुषुम्नायां
सदा गोष्ठीं
यः
कश्चित्कुरुते
नरः ।
स मुक्तः
सर्वपापेभ्यो
निश्रेयसमवाप्नुयात्
॥ ४४॥
सुषुम्नैव
परं तीर्थं
सुषुम्नैव
परं जपः ।
सुषुम्नैव
परं ध्यानं
सुषुम्नैव
परा गतिः ॥ ४५॥
अनेकयज्ञदानानि
व्रतानि
नियमास्तथा ।
सुषुम्नाध्यानलेशस्य
कलां
नार्हन्ति
षोडशीम् ॥ ४६॥
ब्रह्मरन्ध्रे
महास्थाने
वर्तते सततं
शिवा ।
चिच्च्हक्तिः
परमादेवी
मध्यमे
सुप्रतिष्ठिता
॥ ४७॥
मायाशक्तिर्ललाटाग्रभागे
व्योमाम्बुजे
तथा ।
नादरूपा
पराशक्तिर्ललाटस्य
तु मध्यमे ॥
४८॥
भागे
बिन्दुमयी
शक्तिर्ललाटस्यापरांशके
।
बिन्दुमध्ये
च जीवात्मा
सूक्ष्मरूपेण
वर्तते ॥ ४९॥
हृदये
स्थूलरूपेण
मध्यमेन तु
मध्यगे ॥ ५०॥
प्राणापानवशो
जीवो
ह्यधश्चोर्ध्वं
च धावति ।
वामदक्षिणमार्गेण
चञ्चलत्वान्न
दृश्यते ॥ ५१॥
आक्षिप्तो
भुजदण्डेन
यथोच्चलति
कन्दुकः ।
प्राणापानसमाक्षिप्तस्तथा
जीवो न विश्रमेत्
॥ ५२॥
अपानः कर्षति
प्राणं
प्राणोऽपानं
च कर्षति ।
हकारेण
बहिर्याति
सकारेण
विशेत्पुनः ॥
५३॥
हंसहंसेत्यमुं
मन्त्रं जीवो
जपति सर्वदा ।
तद्विद्वानक्षरं
नित्यं यो
जानाति स
योगवित् ॥ ५४॥
कन्दोर्ध्वे
कुण्डलीशक्तिर्मुक्तिरूपा
हि योगिनाम् ।
बन्धनाय च
मूढानां
यस्तां
वेत्ति स
योगवित् ॥ ५५॥
भूर्भुवःस्वरिमे
लोकाश्चन्द्रसूर्याऽग्निदेवताः
।
यासु
मात्रासु
तिष्ठन्ति
तत्परं
ज्योतिरोमिति
॥ ५६॥
त्रयः
कालास्त्रयो
देवास्त्रयो
लोकास्त्रयः
स्वराः ।
त्रयो वेदाः
स्थिता यत्र
तत्परं ज्योतिरोमिति
॥ ५७॥
चित्ते चलति
संसारो
निश्चलं
मोक्ष उच्यते
।
तस्माच्चित्तं
स्थिरीकुर्यात्प्रज्ञया
परया विधे ॥
५८॥
चित्तं
कारणमर्थानां
तस्मिन्सति
जगत्त्रयम् ।
तस्मिन्क्षीणे
जगत्क्षीणं
तच्चिकित्स्यं
प्रयत्नतः ॥
५९॥
मनोहं
गगनाकारं
मनोहं
सर्वतोमुखम्
।
मनोहं
सर्वमात्मा च
न मनः केवलः
परः ॥ ६०॥
मनः कर्माणि
जायन्ते मनो
लिप्यति
पातकैः ।
मनश्चेदुन्मनीभूयान्न
पुण्यं न च
पातकम् ॥ ६१॥
मनसा मन
आलोक्य
वृत्तिशून्यं
यदा भवेत् ।
ततः परं
परब्रह्म
दृश्यते च
सुदुर्लभम् ॥
६२॥
मनसा मन
आलोक्य
मुक्तो भवति
योगवित् ।
मनसा मन
आलोक्य उन्मन्यन्तं
सदा स्मरेत् ॥
६३॥
मनसा मन
आलोक्य
योगनिष्ठः
सदा भवेत् ।
मनसा मन
आलोक्य
दृश्यन्ते
प्रत्यया दश ॥
६४॥
यदा प्रत्यया
दृश्यन्ते
तदा
योगीश्वरो
भवेत् ॥ ६५॥
बिन्दुनादकलाज्योतीरवीन्दुध्रुवतारकम्
।
शान्तं च
तदतीतं च
परंब्रह्म
तदुच्यते ॥
६६॥
हसत्युल्लसति
प्रीत्या
क्रीडते
मोदते तदा ।
तनोति जीवनं
बुद्ध्या
बिभेति
सर्वतोभयात् ॥
६७॥
रोध्यते
बुध्यते शोके
मुह्यते न च
संपदा ।
कंपते
शत्रुकार्येषु
कामेन रमते
हसन् ॥ ६८॥
स्मृत्वा
कामरतं
चित्तं
विजानीयात्कलेवरे
।
यत्र देशे
वसेद्वायुश्चित्तं
तद्वसति ध्रुवम्
॥ ६९॥
मनश्चन्द्रो
रविर्वायुर्दृष्टिरग्निरुदाहृतः
।
बिन्दुनादकला
ब्रह्मन्
विष्णुब्रह्मेशदेवताः
॥ ७०॥
सदा
नादानुसन्धानात्संक्षीणा
वासना भवेत् ।
निरञ्जने
विलीयेत
मरुन्मनसि
पद्मज ॥ ७१॥
यो वै नादः स
वै
बिन्दुस्तद्वै
चित्तं प्रकीर्तितम्
।
नादो
बिन्दुश्च
चित्तं च
त्रिभिरैक्यं
प्रसादयेत् ॥
७२॥
मन एव हि
बिन्दुश्च
उत्पत्तिस्थितिकारणम्
।
मनसोत्पद्यते
बिन्दुर्यथा
क्षीरं
घृतात्मकम् ॥
७३॥
षट् चक्राणि
परिज्ञात्वा
प्रविशेत्सुखमण्डलम्
।
प्रविशेद्वायुमाकृष्य
तथैवोर्ध्वं
नियोजयेत् ॥
७४॥
वायुं
बिन्दुं तथा
चक्रं चित्तं
चैव समभ्यसेत्
।
समाधिमेकेन
समममृतं
यान्ति
योगिनः ॥ ७५॥
यथाग्निर्दारुमध्यस्थो
नोत्तिष्ठेन्मथनं
विना ।
विना
चाभ्यासयोगेन
ज्ञानदीपस्तथा
नहि ॥ ७६॥
घटमध्ये यथा
दीपो बाह्ये
नैव प्रकाशते
।
भिन्ने
तस्मिन् घटे
चैव
दीपज्वाला च
भासते ॥ ७७॥
स्वकायं
घटमित्युक्तं
यथा जीवो हि
तत्पदम् ।
गुरुवाक्यसमाभिन्ने
ब्रह्मज्ञानं
प्रकाशते ॥
७८॥
कर्णधारं
गुरुं
प्राप्य
तद्वाक्यं
प्लववदृढम् ।
अभ्यासवासनाशक्त्या
तरन्ति
भवसागरम् ॥ ७९॥
इत्युपनिषत्
। इति
योगशिखोपनिषदि
षष्ठोऽध्यायः
॥ ६॥
ॐ सह नाववतु
सह नौ भुनक्तु
सह वीर्यं
करवावहै ।
तेजस्विनवधीतमस्तु
मा
विद्विषावहै
॥
ॐ शान्तिः
शान्तिः
शान्तिः ॥ ॐ
तत्सत् ॥
इति
योगशिखोपनिषत्समाप्ता
॥