योगतत्त्वोपनिषद्
योगैश्वर्यं
च कैवल्यं
जायते
यत्प्रसादतः ।
तद्वैष्णवं
योगतत्त्वं
रामचन्द्रपदं
भजे ॥
ॐ सह नाववतु ॥
सह नौ भुनक्तु
॥ सह वीर्यं
करवावहै ॥
तेजस्विनावधीतमस्तु
मा
विद्विषावहै
॥
ॐ शान्तिः
शान्तिः
शान्तिः ॥
योगतत्त्वं
प्रवक्ष्यामि
योगिनां हितकाम्यया
।
यच्च्हृत्वा
च पठित्वा च
सर्वपापैः
प्रमुच्यते ॥
१॥
विष्णुर्नाम
महायोगी
महाभूतो
महातपाः ।
तत्त्वमार्गे
यथा दीपो
दृश्यते
पुरुषोत्तमः
॥ २॥
तमाराध्य
जगन्नाथं
प्रणिपत्य
पितामहः ।
पप्रच्छ
योगतत्त्वं
मे ब्रूहि
चाष्टाङ्गसंयुतम्
॥ ३॥
तमुवाच
हृषीकेशो
वक्ष्यामि
शृणु
तत्त्वतः ।
सर्वे जीवाः
सुखैर्दुखैर्मायाजालेन
वेष्टिताः ॥
४॥
तेषां
मुक्तिकरं
मार्गं
मायाजालनिकृन्तनम्
।
जन्ममृत्युजराव्याधिनाशनं
मृत्युतारकम्
॥ ५॥
नानामार्गैस्तु
दुष्प्रापं
कैवल्यं परमं पदम्
।
पतिताः
शास्त्रजालेषु
प्रज्ञया तेन
मोहिताः ॥ ६॥
अनिर्वाच्यं
पदं वक्तुं न
शक्यं तैः
सुरैरपि ।
स्वात्मप्रकाशरूपं
तत्किं
शास्त्रेण
प्रकाशते ॥ ७॥
निष्कलं
निर्मलं
शान्तं
सर्वातीतं
निरामयम् ।
तदेव
जीवरूपेण
पुण्यपापफलैर्वृतम्
॥ ८॥
परमात्मपदं
नित्यं
तत्कथं
जीवतां गतम् ।
सर्वभावपदातीतं
ज्ञानरूपं
निरञ्जनम् ॥
९॥
वारिवत्स्फुरितं
तस्मिंस्तत्राहंकृतिरुत्थिता
।
पञ्चात्मकमभूत्पिण्डं
धातुबद्धं
गुणात्मकम् ॥
१०॥
सुखदुःखैः
समायुक्तं
जीवभावनया
कुरु ।
तेन जीवाभिधा
प्रोक्ता
विशुद्धैः
परमात्मनि ॥
११॥
कामक्रोधभयं
चापि
मोहलोभमदो
रजः ।
जन्ममृत्युश्च
कार्पण्यं
शोकस्तन्द्रा
क्षुधा तृषा ॥
१२॥
तृष्णा लज्जा
भयं दुह्खं
विषादो हर्ष
एव च ।
एभिर्दोषैर्विनिर्मुक्तः
स जीवः केवलो
मतः ॥ १३॥
तस्माद्दोषविनाशार्थमुपायं
कथयामि ते ।
योगहीनं कथं
ज्ञानं
मोक्षदं भवति
ध्रुवम् ॥ १४॥
योगो हि
ज्ञानहीनस्तु
न क्षमो
मोक्षकर्मणि ।
तस्माज्ज्ञानं
च योगं च
मुमुक्षुर्दृढमभ्यसेत्
॥ १५॥
अज्ञानादेव
संसारो
ज्ञानादेव
विमुच्यते ।
ज्ञानस्वरूपमेवादौ
ज्ञानं
ज्ञेयैकसाधनम्
॥ १६॥
ज्ञातं येन
निजं रूपं
कैवल्यं परमं
पदम् ।
निष्कलं
निर्मलं
साक्षात्सच्चिदानन्दरूपकम्
॥ १७॥
उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम्
।
एतज्ज्ञानमिति
प्रोक्तमथ
योगं ब्रवीमि
ते ॥ १८॥
योगो हि बहुधा
ब्रह्मन्भिद्यते
व्यवहारतः ।
मन्त्रयोगो
लयश्चैव
हठोऽसौ
राजयोगतः ॥
१९॥
आरम्भश्च
घटश्चैव तथा
परिचयः
स्मृतः ।
निष्पत्तिश्चेत्यवस्था
च सर्वत्र
परिकीर्तिता
॥ २०॥
एतेषां
लक्षणं
ब्रह्मन्वक्ष्ये
शृणु समासतः ।
मातृकादियुतं
मन्त्रं
द्वादशाब्दं
तु यो जपेत् ॥
२१॥
क्रमेण लभते
ज्ञानमणिमादिगुणान्वितम्
।
अल्पबुद्धिरिमं
योगं सेवते
साधकाधमः ॥
२२॥
लययोगश्चित्तलयः
कोटिशः
परिकीर्तितः
।
गच्च्हंस्तिष्ठन्स्वपन्भुञ्जन्ध्यायेन्निष्कलमीश्वरम्
॥ २३॥
स एव लययोगः
स्याद्धठयोगमतः
शृणु ।
यमश्च
नियमश्चैव
आसनं
प्राणसंयमः ॥
२४॥
प्रत्याहारो
धारणा च
ध्यानं
भ्रूमध्यमे
हरिम् ।
समाधिः
समतावस्था
साष्टाङ्गो
योग उच्यते ॥ २५॥
महामुद्रा
महाबन्धो
महावेधश्च
खेचरी ।
जालन्धरोड्डियाणश्च
मूलबन्धैस्तथैव
च ॥ २६॥
दीर्घप्रणवसन्धानं
सिद्धान्तश्रवणं
परम् ।
वज्रोली
चामरोली च
सहजोली
त्रिधा मता ॥
२७॥
एतेषां
लक्षणं
ब्रह्मन्प्रत्येकं
शृणु तत्त्वतः
।
लघ्वाहारो
यमेष्वेको
मुख्या भवति
नेतरः ॥ २८॥
अहिंसा
नियमेष्वेका
मुख्या वै
चतुरानन ।
सिद्धं
पद्मं तथा
सिंहं भद्रं
चेति चतुष्टयम्
॥ २९॥
प्रथमाभ्यासकाले
तु विघ्नाः
स्युश्चतुरानन
।
आलस्यं कत्थनं
धूर्तगोष्टी
मन्त्रादिसाधनम्
॥ ३०॥
धातुस्त्रीलौल्यकादीनि
मृगतृष्णामयानि
वै ।
ज्ञात्वा
सुधीस्त्यजेत्सर्वान्विघ्नान्पुण्यप्रभावतः
॥ ३१॥
प्राणायामं
ततः
कुर्यात्पद्मासनगतः
स्वयम् ।
सुशोभनं मठं
कुर्यात्सूक्ष्मद्वारं
तु निर्व्रणम्
॥ ३२॥
सुष्ठु
लिप्तं
गोमयेन सुधया
वा प्रयत्नतः
।
मत्कुणैर्मशकैर्लूतैर्वर्जितं
च प्रयत्नतः ॥
३३॥
दिने दिने च
संमृष्टं
संमार्जन्या
विशेषतः ।
वासितं च
सुगन्धेन
धूपितं
गुग्गुलादिभिः
॥ ३४॥
नात्युच्च्ह्रितं
नातिनीचं
चैलाजिनकुशोत्तरम्
।
तत्रोपविश्य
मेधावी
पद्मासनसमन्वितः
॥ ३५॥
ऋजुकायः
प्राञ्जलिश्च
प्रणमेदिष्टदेवताम्
।
ततो
दक्षिणहस्तस्य
अङ्गुष्ठेनैव
पिङ्गलाम् ॥
३६॥
निरुध्य
पूरयेद्वायुमिडया
तु शनैः शनैः
।
यथाशक्त्यविरोधेन
ततः
कुर्याच्च
कुम्भकम् ॥
३७॥
पुनस्त्यजेत्पिङ्गलया
शनैरेव न
वेगतः ।
पुनः
पिङ्गलयापूर्य
पूरयेदुदरं
शनैः ॥ ३८॥
धारयित्वा
यथाशक्ति
रेचयेदिडया
शनैः ।
यया
त्यजेत्तयापूर्य
धारयेदविरोधतः
॥ ३९॥
जानु
प्रदक्षिणीकृत्य
न द्रुतं न
विलम्बितम् ।
अङ्गुलिस्फोटनं
कुर्यात्सा
मात्रा परिगीयते
॥ ४०॥
इडया
वायुमारोप्य
शनैः
षोडशमात्रया
।
कुम्भयेत्पूरितं
पश्चाच्चतुःषष्ट्या
तु मात्रया ॥
४१॥
रेचयेत्पिङ्गलानाड्या
द्वात्रिंशन्मात्रया
पुनः ।
पुनः
पिङ्गलयापूर्य
पूर्ववत्सुसमाहितः
॥ ४२॥
प्रातर्मध्यन्दिने
सायमर्धरात्रे
च कुम्भकान् ।
शनैरशीतिपर्यन्तं
चतुर्वारं
समभ्यसेत् ॥ ४३॥
एवं
मासत्रयाभ्यासान्नाडीशुद्धिस्ततो
भवेत् ।
यदा तु
नाडीशुद्धिः
स्यात्तदा
चिह्नानि बाह्यतः
॥ ४४॥
जायन्ते
योगिनो देहे
तानि
वक्ष्याम्यशेषतः
।
शरीरलघुता
दीप्तिर्जाठराग्निविवर्धनम्
॥ ४५॥
कृशत्वं च
शरीरस्य तदा
जायेत
निश्चितम् ।
योगाविघ्नकराहारं
वर्जयेद्योगवित्तमः
॥ ४६॥
लवणं सर्षपं
चाम्लमुष्णं
रूक्षं च
तीक्ष्णकम् ।
शाकजातं
रामठादि
वह्निस्त्रीपथसेवनम्
॥ ४७॥
प्रातःस्नानोपवासादिकायक्लेशांश्च
वर्जयेत् ।
अभ्यासकाले
प्रथमं शस्तं
क्षीराज्यभोजनम्
॥ ४८॥
गोधूममुद्गशाल्यन्नं
योगवृद्धिकरं
विदुः ।
ततः परं
यथेष्टं तु
शक्तः
स्याद्वायुधारणे
॥ ४९॥
यथेष्टवायुधारणाद्वायोः
सिद्ध्येत्केवलकुम्भकः
।
केवले कुम्भक
सिद्धे
रेचपूरविवर्जिते
॥ ५०॥
न तस्य
दुर्लभं
किञ्चित्त्रिषु
लोकेषु विद्यते
।
प्रस्वेदो
जायते पूर्वं
मर्दनं तेन
कारयेत् ॥ ५१॥
ततोऽपि
धारणाद्वायोः
क्रमेणैव
शनैः शनैः ।
कम्पो भवति
देहस्य
आसनस्थस्य
देहिनः ॥ ५२॥
ततोऽधिकतराभ्यासाद्दार्दुरी
स्वेन जायते ।
यथा च दर्दुरो
भाव उत्प्लुन्योत्प्लुत्य
गच्छति
॥ ५३॥
पद्मासनस्थितो
योगी तथा गच्छति
भूतले ।
ततोऽधिकतरभ्यासाद्भूमित्यागश्च
जायते ॥ ५४॥
पद्मासनस्थ
एवासौ
भूमिमुत्सृज्य
वर्तते ।
अतिमानुषचेष्टादि
तथा
सामर्थ्यमुद्भवेत्
॥ ५५॥
न दर्शयेच्च
सामर्थ्यं
दर्शनं
वीर्यवत्तरम्
।
स्वल्पं वा
बहुधा दुःखं
योगी न व्यथते
तदा ॥ ५६॥
अल्पमूत्रपुरीषश्च
स्वल्पनिद्रश्च
जायते ।
कीलवो दृषिका
लाला
स्वेददुर्गन्धतानने
॥ ५७॥
एतानि सर्वथा
तस्य न
जायन्ते ततः
परम् ।
ततोऽधिकतराभ्यासाद्बलमुत्पद्यते
बहु ॥ ५८॥
येन भूचर
सिद्धिः
स्याद्भूचराणां
जये क्षमः ।
व्याघ्रो वा
शरभो व्यापि
गजो गवय एव वा
॥ ५९॥
सिंहो वा
योगिना तेन
म्रियन्ते
हस्तताडिताः
।
कन्दर्पस्य
यथा रूपं तथा
स्यादपि
योगिनः ॥ ६०॥
तद्रूपवशगा
नार्यः
काङ्क्षन्ते
तस्य सङ्गमम्
।
यदि सङ्गं
करोत्येष
तस्य
बिन्दुक्षयो
भवेत् ॥ ६१॥
वर्जयित्वा
स्त्रियाः
सङ्गं
कुर्यादभ्यासमादरात्
।
योगिनोऽङ्गे
सुगन्धश्च
जायते
बिन्दुधारणात्
॥ ६२॥
ततो
रहस्युपाविष्टः
प्रणवं
प्लुतमात्रया
।
जपेत्पूर्वार्जितानां
तु पापानां
नाशहेतवे ॥
६३॥
सर्वविघ्नहरो
मन्त्रः
प्रणवः
सर्वदोषहा ।
एवमभ्यासयोगेन
सिद्धिरारम्भसम्भवा
॥ ६४॥
ततो
भवेद्धठावस्था
पवनाभ्यासतत्परा
।
प्राणोऽपानो
मनो
बुद्धिर्जीवात्मपरमात्मनोः
॥ ६५॥
अन्योन्यस्याविरोधेन
एकता घटते यदा
।
घटावस्थेति
सा प्रोक्ता
तच्चिह्नानि
ब्रवीम्यहम्
॥ ६६॥
पूर्वं यः
कथितोऽभ्यासश्चतुर्थांशं
परिग्रहेत् ।
दिवा वा यदि
वा सायं
याममात्रं
समभ्यसेत् ॥ ६७॥
एकवारं
प्रतिदिनं
कुर्यात्केवलकुम्भकम्
।
इन्द्रियाणीन्द्रियार्थेभ्यो
यत्प्रत्याहरणं
स्फुटम् ॥ ६८॥
योगी
कुम्भकमास्थाय
प्रत्याहारः
स उच्यते ।
यद्यत्पश्यति
चक्षुर्भ्यां
तत्तदात्मेति
भावयेत् ॥ ६९॥
यद्यच्च्हृणोति
कर्णाभ्यां
तत्तदात्मेति
भावयेत् ।
लभते नासया
यद्यत्तत्तदात्मेति
भावयेत् ॥ ७०॥
जिह्वया
यद्रसं
ह्यत्ति
तत्तदात्मेति
भावयेत् ।
त्वचा
यद्यत्स्पृशेद्योगी
तत्तदात्मेति
भावयेत् ॥ ७१॥
एवं
ज्ञानेन्द्रियाणां
तु
तत्तत्सौख्यं
सुसाधयेत् ।
याममात्रं
प्रतिदिनं
योगी
यत्नादतन्द्रितः
॥ ७२॥
यथा वा
चित्तसामर्थ्यं
जायते योगिनो
ध्रुवम् ।
दूरश्रुतिर्दूरदृष्टिः
क्षणाद्दूरगमस्तथा
॥ ७३॥
वाक्सिद्धिः
कामरूपत्वमदृश्यकरणी
तथा ।
मलमूत्रप्रलेपेन
लोहादेः
स्वर्णता
भवेत् ॥ ७४॥
खे गतिस्तस्य
जायेत
सन्तताभ्यासयोगतः
।
सदा
बुद्धिमता
भाव्यं
योगिना
योगसिद्धये ॥ ७५॥
एते विघ्ना
महासिद्धेर्न
रमेत्तेषु
बुद्धिमान् ।
न दर्शयेत्स्वसामर्थ्यं
यस्यकस्यापि
योगिराट् ॥
७६॥
यथा मूढो यथा
मूर्खो यथा
बधिर एव वा ।
तथा वर्तेत
लोकस्य
स्वसामर्थ्यस्य
गुप्तये ॥ ७७॥
शिष्याश्च
स्वस्वकार्येषु
प्रार्थयन्ति
न संशयः ।
तत्तत्कर्मकरव्यग्रः
स्वाभ्यासेऽविस्मृतो
भवेत् ॥ ७८॥
अविस्मृत्य
गुरोर्वाक्यमभ्यसेत्तदहर्निशम्
।
एवं
भवेद्धठावस्था
सन्तताभ्यासयोगतः
॥ ७९॥
अनभ्यासवतश्चैव
वृथागोष्ठ्या
न सिद्ध्यति ।
तस्मात्सर्वप्रयत्नेन
योगमेव
सदाभ्यसेत् ॥
८०॥
ततः
परिचयावस्था
जायतेऽभ्यासयोगतः
।
वायुः
परिचितो
यत्नादग्निना
सह कुण्डलीम् ॥
८१॥
भावयित्वा
सुषुम्नायां
प्रविशेदनिरोधतः
।
वायुना सह
चित्तं च
प्रविशेच्च
महापथम् ॥ ८२॥
यस्य चित्तं
स्वपवनं
सुषुम्नां
प्रविशेदिह ।
भूमिरापोऽनलो
वायुराकाशश्चेति
पञ्चकः ॥ ८३॥
येषु पञ्चसु
देवानां
धारणा
पञ्चधोद्यते
।
पादादिजानुपर्यन्तं
पृथिवीस्थानमुच्यते
॥ ८४॥
पृथिवी
चतुरस्रं च
पीतवर्णं
लवर्णकम् ।
पार्थिवे
वायुमारोप्य
लकारेण
समन्वितम् ॥ ८५॥
ध्यायंश्चतुर्भुजाकारं
चतुर्वक्त्रं
हिरण्मयम् ।
धारयेत्पञ्चघटिकाः
पृथिवीजयमाप्नुयात्
॥ ८६॥
पृथिवीयोगतो
मृत्युर्न
भवेदस्य
योगिनः ।
आजानोः
पायुपर्यन्तमपां
स्थानं
प्रकीर्तितम्
॥ ८७॥
आपोऽर्धचन्द्रं
शुक्लं च
वंबीजं
परिकीर्तितम्
।
वारुणे
वायुमारोप्य
वकारेण
समन्वितम् ॥
८८॥
स्मरन्नारायणं
देवं
चतुर्बाहुं
किरीटिनम् ।
शुद्धस्फटिकसङ्काशं
पीतवाससमच्युतम्
॥ ८९॥
धारयेत्पञ्चघटिकाः
सर्वपापैः
प्रमुच्यते ।
ततो जलाद्भयं
नास्ति जले
मृत्युर्न
विद्यते ॥ ९०॥
आपायोर्हृदयान्तं
च
वह्निस्थानं
प्रकीर्तितम्
।
वह्निस्त्रिकोणं
रक्तं च
रेफाक्षरसमुद्भवम्
॥ ९१॥
वह्नौ
चानिलमारोप्य
रेफाक्षरसमुज्ज्वलम्
।
त्रियक्षं
वरदं रुद्रं
तरुणादित्यसंनिभम्
॥ ९२॥
भस्मोद्धूलितसर्वाङ्गं
सुप्रसन्नमनुस्मरन्
।
धारयेत्पञ्चघटिका
वह्निनासौ न
दाह्यते ॥ ९३॥
न दह्यते
शरीरं च प्रविष्टस्याग्निमण्डले
।
आहृदयाद्भ्रुवोर्मध्यं
वायुस्थानं
प्रकीर्तितम्
॥ ९४॥
वायुः
षट्कोणकं
कृष्णं
यकाराक्षरभासुरम्
।
मारुतं
मरुतां
स्थाने
यकाराक्षरभासुरम्
॥ ९५॥
धारयेत्तत्र
सर्वज्ञमीश्वरं
विश्वतोमुखम्
।
धारयेत्पञ्चघटिका
वायुवद्व्योमगो
भवेत् ॥ ९६॥
मरणं न तु
वायोश्च भयं
भवति योगिनः ।
आभ्रूमध्यात्तु
मूर्धान्तमाकाशस्थानमुच्यते
॥ ९७॥
व्योम वृत्तं
च धूम्रं च
हकाराक्षरभासुरम्
।
आकाशे
वायुमारोप्य
हकारोपरि
शङ्करम् ॥ ९८॥
बिन्दुरूपं
महादेवं
व्योमाकारं
सदाशिवम् ।
शुद्धस्फटिकसङ्काशं
धृतबालेन्दुमौलिनम्
॥ ९९॥
पञ्चवक्त्रयुतं
सौम्यं
दशबाहुं
त्रिलोचनम् ।
सर्वायुधैर्धृताकारं
सर्वभूषणभूषितम्
॥ १००॥
उमार्धदेहं
वरदं
सर्वकारणकारणम्
।
आकाशधारणात्तस्य
खेचरत्वं
भवेद्{}ध्रुवम्
॥ १०१॥
यत्रकुत्र
स्थितो वापि
सुखमत्यन्तमश्नुते
।
एवं च धारणाः
पञ्च
कुर्याद्योगी
विचक्षणः ॥ १०२॥
ततो दृढशरीरः
स्यान्मृत्युस्तस्य
न विद्यते ।
ब्रह्मणः
प्रलयेनापि न
सीदति
महामतिः ॥ १०३॥
समभ्यसेत्तथा
ध्यानं
घटिकाषष्टिमेव
च ।
वायुं
निरुध्य
चाकाशे
देवतामिष्टदामिति
॥ १०४॥
सगुणं
ध्यानमेतत्स्यादणिमादिगुणप्रदम्
।
निर्गुणध्यानयुक्तस्य
समाधिश्च ततो
भवेत् ॥ १०५॥
दिनद्वादशकेनैव
समाधिं
समवाप्नुयात्
।
वायुं
निरुध्य
मेधावी
जीवन्मुक्तो
भवत्ययम् ॥
१०६॥
समाधिः
समतावस्था
जीवात्मपरमात्मनोः
।
यदि
स्वदेहमुत्स्रष्टुमिच्छा
चेदुत्सृजेत्स्वयम्
॥ १०७॥
परब्रह्मणि
लीयेत न
तस्योत्क्रान्तिरिष्यते
।
अथ नो
चेत्समुत्स्रष्टुं
स्वशरीरं
प्रियं यदि ॥
१०८॥
सर्वलोकेषु
विहरन्नणिमादिगुणान्वितः
।
कदाचित्स्वेच्छया
देवो भूत्वा
स्वर्गे
महीयते ॥ १०९॥
मनुष्यो वापि
यक्षो वा स्वेच्छयापीक्षणद्भवेत्
।
सिंहो
व्याघ्रो गजो
वाश्वः स्वेच्छया
बहुतामियात्
॥ ११०॥
यथेष्टमेव
वर्तेत यद्वा
योगी
महेश्वरः ।
अभ्यासभेदतो
भेदः फलं तु
सममेव हि ॥
१११॥
पार्ष्णिं
वामस्य
पादस्य
योनिस्थाने
नियोजयेत् ।
प्रसार्य
दक्षिणं पादं
हस्ताभ्यां
धारयेद्दृढम्
॥ ११२॥
चुबुकं हृदि
विन्यस्य
पूरयेद्वायुना
पुनः ।
कुम्भकेन
यथाशक्ति
धारयित्वा तु
रेचयेत् ॥ ११३॥
वामाङ्गेन
समभ्यस्य
दक्षाङ्गेन
ततोऽभ्यसेत्
।
प्रसारितस्तु
यः
पादस्तमूरूपरि
नामयेत् ॥ ११४॥
अयमेव
महाबन्ध
उभयत्रैवमभ्यसेत्
।
महाबन्धस्थितो
योगी कृत्वा
पूरकमेकधीः ॥
११५॥
वायुना
गतिमावृत्य
निभृतं
कर्णमुद्रया
।
पुटद्वयं
समाक्रम्य
वायुः
स्फुरति
सत्वरम् ॥
११६॥
अयमेव
महावेधः
सिद्धैरभ्यस्यतेऽनिशम्
।
अन्तः
कपालकुहरे
जिह्वां
व्यावृत्य
धारयेत् ॥
११७॥
भ्रूमध्यदृष्टिरप्येषा
मुद्रा भवति
खेचरी ।
कण्ठमाकुञ्च्य
हृदये
स्थापयेद्दृढया
धिया ॥ ११८॥
बन्धो
जालन्धराख्योऽयं
मृत्युमातङ्गकेसरी
।
बन्धो येन
सुषुम्नायां
प्राणस्तूड्डीयते
यतः ॥ ११९॥
उड्यानाख्यो
हि बन्धोऽयं
योगिभिः
समुदाहृतः ।
पार्ष्णिभागेन
संपीड्य
योनिमाकुञ्चयेद्दृढम्
॥ १२०॥
अपानमूर्ध्वमुत्थाप्य
योनिबन्धोऽयमुच्यते
।
प्राणापानौ
नादबिन्दू
मूलबन्धेन
चैकताम् ॥
१२१॥
गत्वा योगस्य
संसिद्धिं यच्छतो
नात्र संशयः ।
करणी
विपरीताख्या
सर्वव्याधिविनाशिनी
॥ १२२॥
नित्यमभ्यासयुक्तस्य
जाठराग्निविवर्धनी
।
आहारो
बहुलस्तस्य
संपाद्यः
साधकस्य च ॥
१२३॥
अल्पाहारो
यदि
भवेदग्निर्देहं
हरेत्क्षणात्
।
अधःशिरश्चोर्ध्वपादः
क्षणं
स्यात्प्रथमे
दिने ॥ १२४॥
क्षणाच्च
किञ्चिदधिकमभ्यसेत्तु
दिनेदिने ।
वली च पलितं
चैव
षण्मासार्धान्न
दृश्यते ॥ १२५॥
याममात्रं तु
यो
नित्यमभ्यसेत्स
तु कालजित् ।
वज्रोलीमभ्यसेद्यस्तु
स योगी
सिद्धिभाजनम्
॥ १२६॥
लभ्यते यदि
तस्यैव
योगसिद्धिः
करे स्थिता ।
अतीतानागतं
वेत्ति खेचरी
च भवेद्{}ध्रुवम्
॥ १२७॥
अमरीं यः
पिबेन्नित्यं
नस्यं
कुर्वन्दिने दिने
।
वज्रोलीमभ्यसेन्नित्यममरोलीति
कथ्यते ॥ १२८॥
ततो
भवेद्राजयोगो
नान्तरा भवति
ध्रुवम् ।
यदा तु
राजयोगेन
निष्पन्ना
योगिभिः
क्रिया ॥ १२९॥
तदा
विवेकवैराग्यं
जायते योगिनो
ध्रुवम् ।
विष्णुर्नाम
महायोगी
महाभूतो
महातपाः ॥ १३०॥
तत्त्वमार्गे
यथा दीपो
दृश्यते
पुरुषोत्तमः
।
यः स्तनः
पूर्वपीतस्तं
निष्पीड्य
मुदमश्नुते ॥
१३१॥
यस्माज्जातो
भगात्पूर्वं
तस्मिन्नेव
भगे रमन् ।
या माता सा
पुनर्भार्या
या भार्या
मातरेव हि ॥
१३२॥
यः पिता स
पुनः पुत्रो
यः पुत्रः स
पुनः पिता ।
एवं
संसारचक्रं
कूपचक्रेण
घटा इव ॥ १३३॥
भ्रमन्तो
योनिजन्मानि
श्रुत्वा
लोकान्समश्नुते
।
त्रयो
लोकास्त्रयो
वेदास्तिस्रः
सन्ध्यास्त्रयः
स्वराः ॥ १३४॥
त्रयोऽग्नयश्च
त्रिगुणाः
स्थिताः
सर्वे त्रयाक्षरे
।
त्रयाणामक्षराणां
च
योऽधीतेऽप्यर्धमक्षरम्
॥ १३५॥
तेन सर्वमिदं
प्रोतं
तत्सत्यं
तत्परं पदम् ।
पुष्पमध्ये
यथा गन्धः
पयोमध्ये यथा
घृतम् ॥ १३६॥
तिलमध्ये यथा
तैलं
पाषाणेष्विव
काञ्चनम् ।
हृदि स्थाने
स्थितं पद्मं
तस्य
वक्त्रमधोमुखम्
॥ १३७॥
ऊर्ध्वनालमधोबिन्दुस्तस्य
मध्ये स्थितं मनः
।
अकारे रेचितं
पद्ममुकारेणैव
भिद्यते ॥ १३८॥
मकारे लभते
नादमर्धमात्रा
तु निश्चला ।
शुद्धस्फटिकसङ्काशं
निष्कलं
पापनाशनम् ॥ १३९॥
लभते
योगयुक्तात्मा
पुरुषस्तत्परं
पदम् ।
कूर्मः
स्वपाणिपादादिशिरश्चात्मनि
धारयेत् ॥
१४०॥
एवं द्वारेषु
सर्वेषु
वायुपूरितरेचितः
।
निषिद्धं तु
नवद्वारे
ऊर्ध्वं
प्राङ्निश्वसंस्तथा
॥ १४१॥
घटमध्ये यथा
दीपो निवातं
कुम्भकं
विदुः ।
निषिद्धैर्नवभिर्द्वारैर्निर्जने
निरुपद्रवे ॥
१४२॥
निश्चितं
त्वात्ममात्रेणावशिष्टं
योगसेवयेत्युपनिषत्
॥
ॐ सह नाववतु ॥
सह नौ भुनक्तु
॥ सह वीर्यं
करवावहै ॥
तेजस्विनावधीतमस्तु
मा
विद्विषावहै
॥
ॐ शान्तिः
शान्तिः
शान्तिः ॥
इति
योगतत्त्वोपनिषत्
समाप्ता ॥